Mahabharata

Stri Parva, Adhyaya 10

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 10, Verse 1

क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान्

शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च

Mahabharata

Stri Parva, Adhyaya 10, Verse 2

ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम्

अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन्

Mahabharata

Stri Parva, Adhyaya 10, Verse 3

पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम्

गतः सानुचरो राजञ्शक्रलोकं महीपतिः

Mahabharata

Stri Parva, Adhyaya 10, Verse 4

दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः

सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ

Mahabharata

Stri Parva, Adhyaya 10, Verse 5

इत्येवमुक्त्वा राजानं कृपः शारद्वतस्तदा

गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत्

Mahabharata

Stri Parva, Adhyaya 10, Verse 6

अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून्

वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः

Mahabharata

Stri Parva, Adhyaya 10, Verse 7

ध्रुवं संप्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान्

भास्वरं देहमास्थाय विहरन्त्यमरा इव

Mahabharata

Stri Parva, Adhyaya 10, Verse 8

न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः

शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः

Mahabharata

Stri Parva, Adhyaya 10, Verse 9

एतां तां क्षत्रियस्याहुः पुराणां परमां गतिम्

शस्त्रेण निधनं संख्ये तान्न शोचितुमर्हसि

Mahabharata

Stri Parva, Adhyaya 10, Verse 10

न चापि शत्रवस्तेषामृध्यन्ते राज्ञि पाण्डवाः

शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः

Mahabharata

Stri Parva, Adhyaya 10, Verse 11

अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम्

सुप्तं शिबिरमाविश्य पाण्डूनां कदनं कृतम्

Mahabharata

Stri Parva, Adhyaya 10, Verse 12

पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः

द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः

Mahabharata

Stri Parva, Adhyaya 10, Verse 13

तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते

प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः

Mahabharata

Stri Parva, Adhyaya 10, Verse 14

ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः

अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः

Mahabharata

Stri Parva, Adhyaya 10, Verse 15

निहतानात्मजाञ्श्रुत्वा प्रमत्तान्पुरुषर्षभाः

निनीषन्तः पदं शूराः क्षिप्रमेव यशस्विनि

Mahabharata

Stri Parva, Adhyaya 10, Verse 16

पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे

अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः

Mahabharata

Stri Parva, Adhyaya 10, Verse 17

राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम्

निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम्

Mahabharata

Stri Parva, Adhyaya 10, Verse 18

इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम्

कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत

Mahabharata

Stri Parva, Adhyaya 10, Verse 19

अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम्

गङ्गामनु महात्मानस्तूर्णमश्वानचोदयन्

Mahabharata

Stri Parva, Adhyaya 10, Verse 20

अपक्रम्य तु ते राजन्सर्व एव महारथाः

आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्ततः

Mahabharata

Stri Parva, Adhyaya 10, Verse 21

जगाम हास्तिनपुरं कृपः शारद्वतस्तदा

स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ

Mahabharata

Stri Parva, Adhyaya 10, Verse 22

एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम्

भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम्

Mahabharata

Stri Parva, Adhyaya 10, Verse 23

समेत्य वीरा राजानं तदा त्वनुदिते रवौ

विप्रजग्मुर्महाराज यथेच्छकमरिंदमाः