Mahabharata

Adi Parva, Adhyaya 101

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 101, Verse 1

किं कृतं कर्म धर्मेण येन शापमुपेयिवान्

कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत

Mahabharata

Adi Parva, Adhyaya 101, Verse 2

बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः

धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः

Mahabharata

Adi Parva, Adhyaya 101, Verse 3

स आश्रमपदद्वारि वृक्षमूले महातपाः

ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः

Mahabharata

Adi Parva, Adhyaya 101, Verse 4

तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः

तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः

अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ

Mahabharata

Adi Parva, Adhyaya 101, Verse 5

ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम

निधाय च भयाल्लीनास्तत्रैवान्वागते बले

Mahabharata

Adi Parva, Adhyaya 101, Verse 6

तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम्

आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः

Mahabharata

Adi Parva, Adhyaya 101, Verse 7

तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम्

कतरेण पथा याता दस्यवो द्विजसत्तम

तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम्

Mahabharata

Adi Parva, Adhyaya 101, Verse 8

तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः

न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा

Mahabharata

Adi Parva, Adhyaya 101, Verse 9

ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम्

ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च

Mahabharata

Adi Parva, Adhyaya 101, Verse 10

ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति

संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्

Mahabharata

Adi Parva, Adhyaya 101, Verse 11

तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति

स वध्यघातैरज्ञातः शूले प्रोतो महातपाः

Mahabharata

Adi Parva, Adhyaya 101, Verse 12

ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा

प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ

Mahabharata

Adi Parva, Adhyaya 101, Verse 13

शूलस्थः स तु धर्मात्मा कालेन महता ततः

निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत्

धारयामास च प्राणानृषींश्च समुपानयत्

Mahabharata

Adi Parva, Adhyaya 101, Verse 14

शूलाग्रे तप्यमानेन तपस्तेन महात्मना

संतापं परमं जग्मुर्मुनयोऽथ परंतप

Mahabharata

Adi Parva, Adhyaya 101, Verse 15

ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः

दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम्

श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि

Mahabharata

Adi Parva, Adhyaya 101, Verse 16

ततः स मुनिशार्दूलस्तानुवाच तपोधनान्

दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति

Mahabharata

Adi Parva, Adhyaya 101, Verse 17

राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः

प्रसादयामास तदा शूलस्थमृषिसत्तमम्

Mahabharata

Adi Parva, Adhyaya 101, Verse 18

यन्मयापकृतं मोहादज्ञानादृषिसत्तम

प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि

Mahabharata

Adi Parva, Adhyaya 101, Verse 19

एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः

कृतप्रसादो राजा तं ततः समवतारयत्

Mahabharata

Adi Parva, Adhyaya 101, Verse 20

अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह

अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे

Mahabharata

Adi Parva, Adhyaya 101, Verse 21

स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः

स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः

अणीमाण्डव्य इति च ततो लोकेषु कथ्यते

Mahabharata

Adi Parva, Adhyaya 101, Verse 22

स गत्वा सदनं विप्रो धर्मस्य परमार्थवित्

आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः

Mahabharata

Adi Parva, Adhyaya 101, Verse 23

किं नु तद्दुष्कृतं कर्म मया कृतमजानता

यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया

शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम्

Mahabharata

Adi Parva, Adhyaya 101, Verse 24

पतंगकानां पुच्छेषु त्वयेषीका प्रवेशिता

कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन

Mahabharata

Adi Parva, Adhyaya 101, Verse 25

अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः

शूद्रयोनावतो धर्म मानुषः संभविष्यसि

Mahabharata

Adi Parva, Adhyaya 101, Verse 26

मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम्

आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम्

परेण कुर्वतामेवं दोष एव भविष्यति

Mahabharata

Adi Parva, Adhyaya 101, Verse 27

एतेन त्वपराधेन शापात्तस्य महात्मनः

धर्मो विदुररूपेण शूद्रयोनावजायत

Mahabharata

Adi Parva, Adhyaya 101, Verse 28

धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः

दीर्घदर्शी शमपरः कुरूणां च हिते रतः