Mahabharata

Stri Parva, Adhyaya 9

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 9, Verse 1

गते भगवति व्यासे धृतराष्ट्रो महीपतिः

किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि

Mahabharata

Stri Parva, Adhyaya 9, Verse 2

एतच्छ्रुत्वा नरश्रेष्ठ चिरं ध्यात्वा त्वचेतनः

संजयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत

Mahabharata

Stri Parva, Adhyaya 9, Verse 3

क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः

वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः

Mahabharata

Stri Parva, Adhyaya 9, Verse 4

एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम्

शोकविप्रहतज्ञानो यानमेवान्वपद्यत

Mahabharata

Stri Parva, Adhyaya 9, Verse 5

गान्धारी चैव शोकार्ता भर्तुर्वचनचोदिता

सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत्

Mahabharata

Stri Parva, Adhyaya 9, Verse 6

ताः समासाद्य राजानं भृशं शोकसमन्विताः

आमन्त्र्यान्योन्यमीयुः स्म भृशमुच्चुक्रुशुस्ततः

Mahabharata

Stri Parva, Adhyaya 9, Verse 7

ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम्

अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात्

Mahabharata

Stri Parva, Adhyaya 9, Verse 8

ततः प्रणादः संजज्ञे सर्वेषु कुरुवेश्मसु

आकुमारं पुरं सर्वमभवच्छोककर्शितम्

Mahabharata

Stri Parva, Adhyaya 9, Verse 9

अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि

पृथग्जनेन दृश्यन्त तास्तदा निहतेश्वराः

Mahabharata

Stri Parva, Adhyaya 9, Verse 10

प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च

एकवस्त्रधरा नार्यः परिपेतुरनाथवत्

Mahabharata

Stri Parva, Adhyaya 9, Verse 11

श्वेतपर्वतरूपेभ्यो गृहेभ्यस्तास्त्वपाक्रमन्

गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः

Mahabharata

Stri Parva, Adhyaya 9, Verse 12

तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः

शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गने

Mahabharata

Stri Parva, Adhyaya 9, Verse 13

प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि

दर्शयन्तीव ता ह स्म युगान्ते लोकसंक्षयम्

Mahabharata

Stri Parva, Adhyaya 9, Verse 14

विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः

शोकेनाभ्याहतज्ञानाः कर्तव्यं न प्रजज्ञिरे

Mahabharata

Stri Parva, Adhyaya 9, Verse 15

व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः

ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन्

Mahabharata

Stri Parva, Adhyaya 9, Verse 16

परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्स्म याः

ताः शोकविह्वला राजन्नुपैक्षन्त परस्परम्

Mahabharata

Stri Parva, Adhyaya 9, Verse 17

ताभिः परिवृतो राजा रुदतीभिः सहस्रशः

निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति

Mahabharata

Stri Parva, Adhyaya 9, Verse 18

शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः

ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः

Mahabharata

Stri Parva, Adhyaya 9, Verse 19

तासां विक्रोशमानानामार्तानां कुरुसंक्षये

प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत

Mahabharata

Stri Parva, Adhyaya 9, Verse 20

युगान्तकाले संप्राप्ते भूतानां दह्यतामिव

अभावः स्यादयं प्राप्त इति भूतानि मेनिरे

Mahabharata

Stri Parva, Adhyaya 9, Verse 21

भृशमुद्विग्नमनसस्ते पौराः कुरुसंक्षये

प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम्