Mahabharata

Stri Parva, Adhyaya 8

Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 8, Verse 1

विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः

पुत्रशोकाभिसंतप्तः पपात भुवि मूर्छितः

Mahabharata

Stri Parva, Adhyaya 8, Verse 2

तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः

कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा

Mahabharata

Stri Parva, Adhyaya 8, Verse 3

संजयः सुहृदश्चान्ये द्वाःस्था ये चास्य संमताः

जलेन सुखशीतेन तालवृन्तैश्च भारत

Mahabharata

Stri Parva, Adhyaya 8, Verse 4

पस्पृशुश्च करैर्गात्रं वीजमानाश्च यत्नतः

अन्वासन्सुचिरं कालं धृतराष्ट्रं तथागतम्

Mahabharata

Stri Parva, Adhyaya 8, Verse 5

अथ दीर्घस्य कालस्य लब्धसंज्ञो महीपतिः

विललाप चिरं कालं पुत्राधिभिरभिप्लुतः

Mahabharata

Stri Parva, Adhyaya 8, Verse 6

धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम्

यतोमूलानि दुःखानि संभवन्ति मुहुर्मुहुः

Mahabharata

Stri Parva, Adhyaya 8, Verse 7

पुत्रनाशेऽर्थनाशे च ज्ञातिसंबन्धिनामपि

प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो

Mahabharata

Stri Parva, Adhyaya 8, Verse 8

येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति

येनाभिभूतः पुरुषो मरणं बहु मन्यते

Mahabharata

Stri Parva, Adhyaya 8, Verse 9

तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात्

तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम

Mahabharata

Stri Parva, Adhyaya 8, Verse 10

इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम्

धृतराष्ट्रोऽभवन्मूढः शोकं च परमं गतः

अभूच्च तूष्णीं राजासौ ध्यायमानो महीपते

Mahabharata

Stri Parva, Adhyaya 8, Verse 11

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः

पुत्रशोकाभिसंतप्तं पुत्रं वचनमब्रवीत्

Mahabharata

Stri Parva, Adhyaya 8, Verse 12

धृतराष्ट्र महाबाहो यत्त्वां वक्ष्यामि तच्छृणु

श्रुतवानसि मेधावी धर्मार्थकुशलस्तथा

Mahabharata

Stri Parva, Adhyaya 8, Verse 13

न तेऽस्त्यविदितं किंचिद्वेदितव्यं परंतप

अनित्यतां हि मर्त्यानां विजानासि न संशयः

Mahabharata

Stri Parva, Adhyaya 8, Verse 14

अध्रुवे जीवलोके च स्थाने वाशाश्वते सति

जीविते मरणान्ते च कस्माच्छोचसि भारत

Mahabharata

Stri Parva, Adhyaya 8, Verse 15

प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः

पुत्रं ते कारणं कृत्वा कालयोगेन कारितः

Mahabharata

Stri Parva, Adhyaya 8, Verse 16

अवश्यं भवितव्ये च कुरूणां वैशसे नृप

कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम्

Mahabharata

Stri Parva, Adhyaya 8, Verse 17

जानता च महाबाहो विदुरेण महात्मना

यतितं सर्वयत्नेन शमं प्रति जनेश्वर

Mahabharata

Stri Parva, Adhyaya 8, Verse 18

न च दैवकृतो मार्गः शक्यो भूतेन केनचित्

घटतापि चिरं कालं नियन्तुमिति मे मतिः

Mahabharata

Stri Parva, Adhyaya 8, Verse 19

देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम्

तत्तेऽहं संप्रवक्ष्यामि कथं स्थैर्यं भवेत्तव

Mahabharata

Stri Parva, Adhyaya 8, Verse 20

पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमः

अपश्यं तत्र च तदा समवेतान्दिवौकसः

नारदप्रमुखांश्चापि सर्वान्देवऋषींस्तथा

Mahabharata

Stri Parva, Adhyaya 8, Verse 21

तत्र चापि मया दृष्टा पृथिवी पृथिवीपते

कार्यार्थमुपसंप्राप्ता देवतानां समीपतः

Mahabharata

Stri Parva, Adhyaya 8, Verse 22

उपगम्य तदा धात्री देवानाह समागतान्

यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा

प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम्

Mahabharata

Stri Parva, Adhyaya 8, Verse 23

तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः

उवाच प्रहसन्वाक्यं पृथिवीं देवसंसदि

Mahabharata

Stri Parva, Adhyaya 8, Verse 24

धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै

दुर्योधन इति ख्यातः स ते कार्यं करिष्यति

तं च प्राप्य महीपालं कृतकृत्या भविष्यसि

Mahabharata

Stri Parva, Adhyaya 8, Verse 25

तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः

अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः

Mahabharata

Stri Parva, Adhyaya 8, Verse 26

ततस्ते भविता देवि भारस्य युधि नाशनम्

गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने

Mahabharata

Stri Parva, Adhyaya 8, Verse 27

स एष ते सुतो राजँल्लोकसंहारकारणात्

कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप

Mahabharata

Stri Parva, Adhyaya 8, Verse 28

अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः

दैवयोगात्समुत्पन्ना भ्रातरश्चास्य तादृशाः

Mahabharata

Stri Parva, Adhyaya 8, Verse 29

शकुनिर्मातुलश्चैव कर्णश्च परमः सखा

समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः

एतमर्थं महाबाहो नारदो वेद तत्त्वतः

Mahabharata

Stri Parva, Adhyaya 8, Verse 30

आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते

मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम्