Stri Parva, Adhyaya 7, Verse 1
अहोऽभिहितमाख्यानं भवता तत्त्वदर्शिना
भूय एव तु मे हर्षः श्रोतुं वागमृतं तव
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
अहोऽभिहितमाख्यानं भवता तत्त्वदर्शिना
भूय एव तु मे हर्षः श्रोतुं वागमृतं तव
शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम्
यच्छ्रुत्वा विप्रमुच्यन्ते संसारेभ्यो विचक्षणाः
यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः
क्वचित्क्वचिच्छ्रमात्स्थाता कुरुते वासमेव वा
एवं संसारपर्याये गर्भवासेषु भारत
कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः
तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः
यत्तु संसारगहनं वनमाहुर्मनीषिणः
सोऽयं लोकसमावर्तो मर्त्यानां भरतर्षभ
चराणां स्थावराणां च गृध्येत्तत्र न पण्डितः
शारीरा मानसाश्चैव मर्त्यानां ये तु व्याधयः
प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः
क्लिश्यमानाश्च तैर्नित्यं हन्यमानाश्च भारत
स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः
अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप
आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी
शब्दरूपरसस्पर्शैर्गन्धैश्च विविधैरपि
मज्जमानं महापङ्के निरालम्बे समन्ततः
संवत्सरर्तवो मासाः पक्षाहोरात्रसंधयः
क्रमेणास्य प्रलुम्पन्ति रूपमायुस्तथैव च
एते कालस्य निधयो नैताञ्जानन्ति दुर्बुधाः
अत्राभिलिखितान्याहुः सर्वभूतानि कर्मणा
रथं शरीरं भूतानां सत्त्वमाहुस्तु सारथिम्
इन्द्रियाणि हयानाहुः कर्म बुद्धिश्च रश्मयः
तेषां हयानां यो वेगं धावतामनुधावति
स तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते
यस्तान्यमयते बुद्ध्या स यन्ता न निवर्तते
याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः
स चैतत्प्राप्नुते राजन्यत्त्वं प्राप्तो नराधिप
राज्यनाशं सुहृन्नाशं सुतनाशं च भारत
अनुतर्षुलमेवैतद्दुःखं भवति भारत
साधुः परमदुःखानां दुःखभैषज्यमाचरेत्
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः
तथोन्मोचयते दुःखाद्यथात्मा स्थिरसंयमः
तस्मान्मैत्रं समास्थाय शीलमापद्य भारत
दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः
शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे
त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति