Stri Parva, Adhyaya 6, Verse 1
अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर
स देशः क्व नु यत्रासौ वसते धर्मसंकटे
कथं वा स विमुच्येत नरस्तस्मान्महाभयात्
एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तथा
कृपा मे महती जाता तस्याभ्युद्धरणेन हि
उपमानमिदं राजन्मोक्षविद्भिरुदाहृतम्
सुगतिं विन्दते येन परलोकेषु मानवः
यत्तदुच्यति कान्तारं महत्संसार एव सः
वनं दुर्गं हि यत्त्वेतत्संसारगहनं हि तत्
ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः
या सा नारी बृहत्काया अधितिष्ठति तत्र वै
तामाहुस्तु जरां प्राज्ञा वर्णरूपविनाशिनीम्
यस्तत्र कूपो नृपते स तु देहः शरीरिणाम्
यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः
अन्तकः सर्वभूतानां देहिनां सर्वहार्यसौ
कूपमध्ये च या जाता वल्ली यत्र स मानवः
प्रताने लम्बते सा तु जीविताशा शरीरिणाम्
स यस्तु कूपवीनाहे तं वृक्षं परिसर्पति
षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः
मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः
ये तु वृक्षं निकृन्तन्ति मूषकाः सततोत्थिताः
रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः
ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः
यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम्
तांस्तु कामरसान्विद्याद्यत्र मज्जन्ति मानवाः
एवं संसारचक्रस्य परिवृत्तिं स्म ये विदुः
ते वै संसारचक्रस्य पाशांश्छिन्दन्ति वै बुधाः