Stri Parva, Adhyaya 5, Verse 1
यदिदं धर्मगहनं बुद्ध्या समनुगम्यते
एतद्विस्तरशः सर्वं बुद्धिमार्गं प्रशंस मे
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
यदिदं धर्मगहनं बुद्ध्या समनुगम्यते
एतद्विस्तरशः सर्वं बुद्धिमार्गं प्रशंस मे
अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयंभुवे
यथा संसारगहनं वदन्ति परमर्षयः
कश्चिन्महति संसारे वर्तमानो द्विजः किल
वनं दुर्गमनुप्राप्तो महत्क्रव्यादसंकुलम्
सिंहव्याघ्रगजाकारैरतिघोरैर्महाशनैः
समन्तात्संपरिक्षिप्तं मृत्योरपि भयप्रदम्
तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम्
अभ्युच्छ्रयश्च रोम्णां वै विक्रियाश्च परंतप
स तद्वनं व्यनुसरन्विप्रधावनितस्ततः
वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति
स तेषां छिद्रमन्विच्छन्प्रद्रुतो भयपीडितः
न च निर्याति वै दूरं न च तैर्विप्रयुज्यते
अथापश्यद्वनं घोरं समन्ताद्वागुरावृतम्
बाहुभ्यां संपरिष्वक्तं स्त्रिया परमघोरया
पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः
नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम्
वनमध्ये च तत्राभूदुदपानः समावृतः
वल्लीभिस्तृणछन्नाभिर्गूढाभिरभिसंवृतः
पपात स द्विजस्तत्र निगूढे सलिलाशये
विलग्नश्चाभवत्तस्मिँल्लतासंतानसंकटे
पनसस्य यथा जातं वृन्तबद्धं महाफलम्
स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधःशिराः
अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः
कूपवीनाहवेलायामपश्यत महागजम्
षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम्
क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम्
तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः
नानारूपा मधुकरा घोररूपा भयावहाः
आसते मधु संभृत्य पूर्वमेव निकेतजाः
भूयो भूयः समीहन्ते मधूनि भरतर्षभ
स्वादनीयानि भूतानां न यैर्बालोऽपि तृप्यते
तेषां मधूनां बहुधा धारा प्रस्रवते सदा
तां लम्बमानः स पुमान्धारां पिबति सर्वदा
न चास्य तृष्णा विरता पिबमानस्य संकटे
अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः
न चास्य जीविते राजन्निर्वेदः समजायत
तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता
कृष्णाः श्वेताश्च तं वृक्षं कुट्टयन्ति स्म मूषकाः
व्यालैश्च वनदुर्गान्ते स्त्रिया च परमोग्रया
कूपाधस्ताच्च नागेन वीनाहे कुञ्जरेण च
वृक्षप्रपाताच्च भयं मूषकेभ्यश्च पञ्चमम्
मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम्
एवं स वसते तत्र क्षिप्तः संसारसागरे
न चैव जीविताशायां निर्वेदमुपगच्छति