Mahabharata

Stri Parva, Adhyaya 4

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 4, Verse 1

कथं संसारगहनं विज्ञेयं वदतां वर

एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः

Mahabharata

Stri Parva, Adhyaya 4, Verse 2

जन्मप्रभृति भूतानां क्रियाः सर्वाः शृणु प्रभो

पूर्वमेवेह कलले वसते किंचिदन्तरम्

Mahabharata

Stri Parva, Adhyaya 4, Verse 3

ततः स पञ्चमेऽतीते मासे मांसं प्रकल्पयेत्

ततः सर्वाङ्गसंपूर्णो गर्भो मासे प्रजायते

Mahabharata

Stri Parva, Adhyaya 4, Verse 4

अमेध्यमध्ये वसति मांसशोणितलेपने

ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधःशिराः

Mahabharata

Stri Parva, Adhyaya 4, Verse 5

योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति

योनिसंपीडनाच्चैव पूर्वकर्मभिरन्वितः

Mahabharata

Stri Parva, Adhyaya 4, Verse 6

तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान्

ग्रहास्तमुपसर्पन्ति सारमेया इवामिषम्

Mahabharata

Stri Parva, Adhyaya 4, Verse 7

ततः प्राप्तोत्तरे काले व्याधयश्चापि तं तथा

उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः

Mahabharata

Stri Parva, Adhyaya 4, Verse 8

बद्धमिन्द्रियपाशैस्तं सङ्गस्वादुभिरातुरम्

व्यसनान्युपवर्तन्ते विविधानि नराधिप

बध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः

Mahabharata

Stri Parva, Adhyaya 4, Verse 9

अयं न बुध्यते तावद्यमलोकमथागतम्

यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति

Mahabharata

Stri Parva, Adhyaya 4, Verse 10

वाग्घीनस्य च यन्मात्रमिष्टानिष्टं कृतं मुखे

भूय एवात्मनात्मानं बध्यमानमुपेक्षते

Mahabharata

Stri Parva, Adhyaya 4, Verse 11

अहो विनिकृतो लोको लोभेन च वशीकृतः

लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते

Mahabharata

Stri Parva, Adhyaya 4, Verse 12

कुलीनत्वेन रमते दुष्कुलीनान्विकुत्सयन्

धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन्

Mahabharata

Stri Parva, Adhyaya 4, Verse 13

मूर्खानिति परानाह नात्मानं समवेक्षते

शिक्षां क्षिपति चान्येषां नात्मानं शास्तुमिच्छति

Mahabharata

Stri Parva, Adhyaya 4, Verse 14

अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन्

जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम्

Mahabharata

Stri Parva, Adhyaya 4, Verse 15

एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते

स प्रमोक्षाय लभते पन्थानं मनुजाधिप