Mahabharata

Stri Parva, Adhyaya 3

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 3, Verse 1

सुभाषितैर्महाप्राज्ञ शोकोऽयं विगतो मम

भुय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः

Mahabharata

Stri Parva, Adhyaya 3, Verse 2

अनिष्टानां च संसर्गादिष्टानां च विवर्जनात्

कथं हि मानसैर्दुःखैः प्रमुच्यन्तेऽत्र पण्डिताः

Mahabharata

Stri Parva, Adhyaya 3, Verse 3

यतो यतो मनो दुःखात्सुखाद्वापि प्रमुच्यते

ततस्ततः शमं लब्ध्वा सुगतिं विन्दते बुधः

Mahabharata

Stri Parva, Adhyaya 3, Verse 4

अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ

कदलीसंनिभो लोकः सारो ह्यस्य न विद्यते

Mahabharata

Stri Parva, Adhyaya 3, Verse 5

गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः

कालेन विनियुज्यन्ते सत्त्वमेकं तु शोभनम्

Mahabharata

Stri Parva, Adhyaya 3, Verse 6

यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु वै नरः

अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम्

Mahabharata

Stri Parva, Adhyaya 3, Verse 7

वैचित्रवीर्य वासं हि दुःखं वा यदि वा सुखम्

प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा

Mahabharata

Stri Parva, Adhyaya 3, Verse 8

कर्मणा प्राप्यते स्वर्गं सुखं दुःखं च भारत

ततो वहति तं भारमवशः स्ववशोऽपि वा

Mahabharata

Stri Parva, Adhyaya 3, Verse 9

यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते

किंचित्प्रक्रियमाणं वा कृतमात्रमथापि वा

Mahabharata

Stri Parva, Adhyaya 3, Verse 10

छिन्नं वाप्यवरोप्यन्तमवतीर्णमथापि वा

आर्द्रं वाप्यथ वा शुष्कं पच्यमानमथापि वा

Mahabharata

Stri Parva, Adhyaya 3, Verse 11

अवतार्यमाणमापाकादुद्धृतं वापि भारत

अथ वा परिभुज्यन्तमेवं देहाः शरीरिणाम्

Mahabharata

Stri Parva, Adhyaya 3, Verse 12

गर्भस्थो वा प्रसूतो वाप्यथ वा दिवसान्तरः

अर्धमासगतो वापि मासमात्रगतोऽपि वा

Mahabharata

Stri Parva, Adhyaya 3, Verse 13

संवत्सरगतो वापि द्विसंवत्सर एव वा

यौवनस्थोऽपि मध्यस्थो वृद्धो वापि विपद्यते

Mahabharata

Stri Parva, Adhyaya 3, Verse 14

प्राक्कर्मभिस्तु भूतानि भवन्ति न भवन्ति च

एवं सांसिद्धिके लोके किमर्थमनुतप्यसे

Mahabharata

Stri Parva, Adhyaya 3, Verse 15

यथा च सलिले राजन्क्रीडार्थमनुसंचरन्

उन्मज्जेच्च निमज्जेच्च किंचित्सत्त्वं नराधिप

Mahabharata

Stri Parva, Adhyaya 3, Verse 16

एवं संसारगहनादुन्मज्जननिमज्जनात्

कर्मभोगेन बध्यन्तः क्लिश्यन्ते येऽल्पबुद्धयः

Mahabharata

Stri Parva, Adhyaya 3, Verse 17

ये तु प्राज्ञाः स्थिताः सत्ये संसारान्तगवेषिणः

समागमज्ञा भूतानां ते यान्ति परमां गतिम्