Mahabharata

Stri Parva, Adhyaya 2

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 2, Verse 1

ततोऽमृतसमैर्वाक्यैर्ह्लादयन्पुरुषर्षभम्

वैचित्रवीर्यं विदुरो यदुवाच निबोध तत्

Mahabharata

Stri Parva, Adhyaya 2, Verse 2

उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना

स्थिरजङ्गममर्त्यानां सर्वेषामेष निर्णयः

Mahabharata

Stri Parva, Adhyaya 2, Verse 3

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः

संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्

Mahabharata

Stri Parva, Adhyaya 2, Verse 4

यदा शूरं च भीरुं च यमः कर्षति भारत

तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ

Mahabharata

Stri Parva, Adhyaya 2, Verse 5

अयुध्यमानो म्रियते युध्यमानश्च जीवति

कालं प्राप्य महाराज न कश्चिदतिवर्तते

Mahabharata

Stri Parva, Adhyaya 2, Verse 6

न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि

प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम्

Mahabharata

Stri Parva, Adhyaya 2, Verse 7

सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः

सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना

Mahabharata

Stri Parva, Adhyaya 2, Verse 8

अदर्शनादापतिताः पुनश्चादर्शनं गताः

न ते तव न तेषां त्वं तत्र का परिदेवना

Mahabharata

Stri Parva, Adhyaya 2, Verse 9

हतोऽपि लभते स्वर्गं हत्वा च लभते यशः

उभयं नो बहुगुणं नास्ति निष्फलता रणे

Mahabharata

Stri Parva, Adhyaya 2, Verse 10

तेषां कामदुघाँल्लोकानिन्द्रः संकल्पयिष्यति

इन्द्रस्यातिथयो ह्येते भवन्ति पुरुषर्षभ

Mahabharata

Stri Parva, Adhyaya 2, Verse 11

न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया

स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः

Mahabharata

Stri Parva, Adhyaya 2, Verse 12

मातापितृसहस्राणि पुत्रदारशतानि च

संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्

Mahabharata

Stri Parva, Adhyaya 2, Verse 13

शोकस्थानसहस्राणि भयस्थानशतानि च

दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

Mahabharata

Stri Parva, Adhyaya 2, Verse 14

न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम

न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति

Mahabharata

Stri Parva, Adhyaya 2, Verse 15

अनित्यं जीवितं रूपं यौवनं द्रव्यसंचयः

आरोग्यं प्रियसंवासो गृध्येदेषु न पण्डितः

Mahabharata

Stri Parva, Adhyaya 2, Verse 16

न जानपदिकं दुःखमेकः शोचितुमर्हसि

अप्यभावेन युज्येत तच्चास्य न निवर्तते

Mahabharata

Stri Parva, Adhyaya 2, Verse 17

अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम्

भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्

चिन्त्यमानं हि न व्येति भूयश्चापि विवर्धते

Mahabharata

Stri Parva, Adhyaya 2, Verse 18

अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च

मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः

Mahabharata

Stri Parva, Adhyaya 2, Verse 19

नार्थो न धर्मो न सुखं यदेतदनुशोचसि

न च नापैति कार्यार्थात्त्रिवर्गाच्चैव भ्रश्यते

Mahabharata

Stri Parva, Adhyaya 2, Verse 20

अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः

असंतुष्टाः प्रमुह्यन्ति संतोषं यान्ति पण्डिताः

Mahabharata

Stri Parva, Adhyaya 2, Verse 21

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः

एतज्ज्ञानस्य सामर्थ्यं न बालैः समतामियात्

Mahabharata

Stri Parva, Adhyaya 2, Verse 22

शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति

अनुधावति धावन्तं कर्म पूर्वकृतं नरम्

Mahabharata

Stri Parva, Adhyaya 2, Verse 23

यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम्

तस्यां तस्यामवस्थायां तत्तत्फलमुपाश्नुते