Mahabharata

Stri Parva, Adhyaya 1

Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 1, Verse 1

हते दुर्योधने चैव हते सैन्ये च सर्वशः

धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने

Mahabharata

Stri Parva, Adhyaya 1, Verse 2

तथैव कौरवो राजा धर्मपुत्रो महामनाः

कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः

Mahabharata

Stri Parva, Adhyaya 1, Verse 3

अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः

वृत्तान्तमुत्तरं ब्रूहि यदभाषत संजयः

Mahabharata

Stri Parva, Adhyaya 1, Verse 4

हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम्

पुत्रशोकाभिसंतप्तं धृतराष्ट्रं महीपतिम्

Mahabharata

Stri Parva, Adhyaya 1, Verse 5

ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम्

अभिगम्य महाप्राज्ञः संजयो वाक्यमब्रवीत्

Mahabharata

Stri Parva, Adhyaya 1, Verse 6

किं शोचसि महाराज नास्ति शोके सहायता

अक्षौहिण्यो हताश्चाष्टौ दश चैव विशां पते

निर्जनेयं वसुमती शून्या संप्रति केवला

Mahabharata

Stri Parva, Adhyaya 1, Verse 7

नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः

सहितास्तव पुत्रेण सर्वे वै निधनं गताः

Mahabharata

Stri Parva, Adhyaya 1, Verse 8

पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा

गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय

Mahabharata

Stri Parva, Adhyaya 1, Verse 9

तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः

पपात भुवि दुर्धर्षो वाताहत इव द्रुमः

Mahabharata

Stri Parva, Adhyaya 1, Verse 10

हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः

दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम्

Mahabharata

Stri Parva, Adhyaya 1, Verse 11

किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै

लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः

Mahabharata

Stri Parva, Adhyaya 1, Verse 12

हृतराज्यो हतसुहृद्धतचक्षुश्च वै तथा

न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान्

Mahabharata

Stri Parva, Adhyaya 1, Verse 13

न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः

नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च

Mahabharata

Stri Parva, Adhyaya 1, Verse 14

सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम

अलं वैरेण ते राजन्पुत्रः संगृह्यतामिति

Mahabharata

Stri Parva, Adhyaya 1, Verse 15

तच्च वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः

न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम्

Mahabharata

Stri Parva, Adhyaya 1, Verse 16

दुर्योधनस्य च तथा वृषभस्येव नर्दतः

दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम्

द्रोणसूर्योपरागं च हृदयं मे विदीर्यते

Mahabharata

Stri Parva, Adhyaya 1, Verse 17

न स्मराम्यात्मनः किंचित्पुरा संजय दुष्कृतम्

यस्येदं फलमद्येह मया मूढेन भुज्यते

Mahabharata

Stri Parva, Adhyaya 1, Verse 18

नूनं ह्यपकृतं किंचिन्मया पूर्वेषु जन्मसु

येन मां दुःखभागेषु धाता कर्मसु युक्तवान्

Mahabharata

Stri Parva, Adhyaya 1, Verse 19

परिणामश्च वयसः सर्वबन्धुक्षयश्च मे

सुहृन्मित्रविनाशश्च दैवयोगादुपागतः

कोऽन्योऽस्ति दुःखिततरो मया लोके पुमानिह

Mahabharata

Stri Parva, Adhyaya 1, Verse 20

तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रतम्

विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम्

Mahabharata

Stri Parva, Adhyaya 1, Verse 21

तस्य लालप्यमानस्य बहुशोकं विचिन्वतः

शोकापहं नरेन्द्रस्य संजयो वाक्यमब्रवीत्

Mahabharata

Stri Parva, Adhyaya 1, Verse 22

शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः

शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम

सृञ्जये पुत्रशोकार्ते यदूचुर्मुनयः पुरा

Mahabharata

Stri Parva, Adhyaya 1, Verse 23

तथा यौवनजं दर्पमास्थिते ते सुते नृप

न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम्

स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना

Mahabharata

Stri Parva, Adhyaya 1, Verse 24

तव दुःशासनो मन्त्री राधेयश्च दुरात्मवान्

शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः

शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत्

Mahabharata

Stri Parva, Adhyaya 1, Verse 25

कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च

न कृतं वचनं तेन तव पुत्रेण भारत

Mahabharata

Stri Parva, Adhyaya 1, Verse 26

न धर्मः सत्कृतः कश्चिन्नित्यं युद्धमिति ब्रुवन्

क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः

Mahabharata

Stri Parva, Adhyaya 1, Verse 27

मध्यस्थो हि त्वमप्यासीर्न क्षमं किंचिदुक्तवान्

धूर्धरेण त्वया भारस्तुलया न समं धृतः

Mahabharata

Stri Parva, Adhyaya 1, Verse 28

आदावेव मनुष्येण वर्तितव्यं यथा क्षमम्

यथा नातीतमर्थं वै पश्चात्तापेन युज्यते

Mahabharata

Stri Parva, Adhyaya 1, Verse 29

पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षता

पश्चात्तापमिदं प्राप्तं न त्वं शोचितुमर्हसि

Mahabharata

Stri Parva, Adhyaya 1, Verse 30

मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति

स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान्