Adi Parva, Adhyaya 100, Verse 1
ततः सत्यवती काले वधूं स्नातामृतौ तदा
संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत्
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः सत्यवती काले वधूं स्नातामृतौ तदा
संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत्
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति
अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे
साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुंगवान्
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः
दीप्यमानेषु दीपेषु शयनं प्रविवेश ह
तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने
बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत्
संबभूव तया रात्रौ मातुः प्रियचिकीर्षया
भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम्
ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत्
अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति
निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान्
प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः
महाभागो महावीर्यो महाबुद्धिर्भविष्यति
तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः
किं तु मातुः स वैगुण्यादन्ध एव भविष्यति
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत्
नान्धः कुरूणां नृपतिरनुरूपस्तपोधन
ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम्
द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि
स तथेति प्रतिज्ञाय निश्चक्राम महातपाः
सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम्
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः
ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता
ततस्तेनैव विधिना महर्षिस्तामपद्यत
अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम्
विषण्णा पाण्डुसंकाशा समपद्यत भारत
तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य पार्थिव
व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत्
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि
तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति
नाम चास्य तदेवेह भविष्यति शुभानने
इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः
ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत
शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम्
तं माता पुनरेवान्यमेकं पुत्रमयाचत
तथेति च महर्षिस्तां मातरं प्रत्यभाषत
ततः कुमारं सा देवी प्राप्तकालमजीजनत्
पाण्डुं लक्षणसंपन्नं दीप्यमानमिव श्रिया
तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत्
सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम्
नाकरोद्वचनं देव्या भयात्सुरसुतोपमा
ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम्
प्रेषयामास कृष्णाय ततः काशिपतेः सुता
दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च
संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह
कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः
तया सहोषितो रात्रिं महर्षिः प्रीयमाणया
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि
अयं च ते शुभे गर्भः श्रीमानुदरमागतः
धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः
धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान्
धर्मो विदुररूपेण शापात्तस्य महात्मनः
माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च
तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत
एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि
जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः