Mahabharata

Adi Parva, Adhyaya 99

Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 99, Verse 1

पुनर्भरतवंशस्य हेतुं संतानवृद्धये

वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु

Mahabharata

Adi Parva, Adhyaya 99, Verse 2

ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम्

विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः

Mahabharata

Adi Parva, Adhyaya 99, Verse 3

ततः सत्यवती भीष्मं वाचा संसज्जमानया

विहसन्तीव सव्रीडमिदं वचनमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 99, Verse 4

सत्यमेतन्महाबाहो यथा वदसि भारत

विश्वासात्ते प्रवक्ष्यामि संतानाय कुलस्य च

न ते शक्यमनाख्यातुमापद्धीयं तथाविधा

Mahabharata

Adi Parva, Adhyaya 99, Verse 5

त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः

तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम्

Mahabharata

Adi Parva, Adhyaya 99, Verse 6

धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम

सा कदाचिदहं तत्र गता प्रथमयौवने

Mahabharata

Adi Parva, Adhyaya 99, Verse 7

अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः

आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम्

Mahabharata

Adi Parva, Adhyaya 99, Verse 8

स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा

सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु

Mahabharata

Adi Parva, Adhyaya 99, Verse 9

तमहं शापभीता च पितुर्भीता च भारत

वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे

Mahabharata

Adi Parva, Adhyaya 99, Verse 10

अभिभूय स मां बालां तेजसा वशमानयत्

तमसा लोकमावृत्य नौगतामेव भारत

Mahabharata

Adi Parva, Adhyaya 99, Verse 11

मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः

तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः

Mahabharata

Adi Parva, Adhyaya 99, Verse 12

ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम्

द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि

Mahabharata

Adi Parva, Adhyaya 99, Verse 13

पाराशर्यो महायोगी स बभूव महानृषिः

कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः

Mahabharata

Adi Parva, Adhyaya 99, Verse 14

यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः

लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च

Mahabharata

Adi Parva, Adhyaya 99, Verse 15

सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः

स नियुक्तो मया व्यक्तं त्वया च अमितद्युते

भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति

Mahabharata

Adi Parva, Adhyaya 99, Verse 16

स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति

तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि

Mahabharata

Adi Parva, Adhyaya 99, Verse 17

तव ह्यनुमते भीष्म नियतं स महातपाः

विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति

Mahabharata

Adi Parva, Adhyaya 99, Verse 18

महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत्

धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति

Mahabharata

Adi Parva, Adhyaya 99, Verse 19

अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम्

कामं कामानुबन्धं च विपरीतान्पृथक्पृथक्

यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान्

Mahabharata

Adi Parva, Adhyaya 99, Verse 20

तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः

उक्तं भवत्या यच्छ्रेयः परमं रोचते मम

Mahabharata

Adi Parva, Adhyaya 99, Verse 21

ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन

कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्

Mahabharata

Adi Parva, Adhyaya 99, Verse 22

स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम्

प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन

Mahabharata

Adi Parva, Adhyaya 99, Verse 23

तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम्

परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च

मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम्

Mahabharata

Adi Parva, Adhyaya 99, Verse 24

तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च

मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 99, Verse 25

भवत्या यदभिप्रेतं तदहं कर्तुमागतः

शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव

Mahabharata

Adi Parva, Adhyaya 99, Verse 26

तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये

स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम्

Mahabharata

Adi Parva, Adhyaya 99, Verse 27

तमासनगतं माता पृष्ट्वा कुशलमव्ययम्

सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम्

Mahabharata

Adi Parva, Adhyaya 99, Verse 28

मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे

तेषां पिता यथा स्वामी तथा माता न संशयः

Mahabharata

Adi Parva, Adhyaya 99, Verse 29

विधातृविहितः स त्वं यथा मे प्रथमः सुतः

विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः

Mahabharata

Adi Parva, Adhyaya 99, Verse 30

यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः

भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे