Mahabharata

Adi Parva, Adhyaya 97

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 97, Verse 1

ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी

पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत

Mahabharata

Adi Parva, Adhyaya 97, Verse 2

धर्मं च पितृवंशं च मातृवंशं च मानिनी

प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 97, Verse 3

शंतनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः

त्वयि पिण्डश्च कीर्तिश्च संतानं च प्रतिष्ठितम्

Mahabharata

Adi Parva, Adhyaya 97, Verse 4

यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्

यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः

Mahabharata

Adi Parva, Adhyaya 97, Verse 5

वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च

विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः

Mahabharata

Adi Parva, Adhyaya 97, Verse 6

व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये

प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव

Mahabharata

Adi Parva, Adhyaya 97, Verse 7

तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर

कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि

Mahabharata

Adi Parva, Adhyaya 97, Verse 8

मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते

बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ

Mahabharata

Adi Parva, Adhyaya 97, Verse 9

इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे

रूपयौवनसंपन्ने पुत्रकामे च भारत

Mahabharata

Adi Parva, Adhyaya 97, Verse 10

तयोरुत्पादयापत्यं संतानाय कुलस्य नः

मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि

Mahabharata

Adi Parva, Adhyaya 97, Verse 11

राज्ये चैवाभिषिच्यस्व भारताननुशाधि च

दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान्

Mahabharata

Adi Parva, Adhyaya 97, Verse 12

तथोच्यमानो मात्रा च सुहृद्भिश्च परंतपः

प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः

Mahabharata

Adi Parva, Adhyaya 97, Verse 13

असंशयं परो धर्मस्त्वया मातरुदाहृतः

त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम्

Mahabharata

Adi Parva, Adhyaya 97, Verse 14

जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे

स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः

Mahabharata

Adi Parva, Adhyaya 97, Verse 15

परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः

यद्वाप्यधिकमेताभ्यां न तु सत्यं कथंचन

Mahabharata

Adi Parva, Adhyaya 97, Verse 16

त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः

ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत्

Mahabharata

Adi Parva, Adhyaya 97, Verse 17

प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम्

त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत्

Mahabharata

Adi Parva, Adhyaya 97, Verse 18

विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट्

न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन

Mahabharata

Adi Parva, Adhyaya 97, Verse 19

एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा

माता सत्यवती भीष्ममुवाच तदनन्तरम्

Mahabharata

Adi Parva, Adhyaya 97, Verse 20

जानामि ते स्थितिं सत्ये परां सत्यपराक्रम

इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा

Mahabharata

Adi Parva, Adhyaya 97, Verse 21

जानामि चैव सत्यं तन्मदर्थं यदभाषथाः

आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम्

Mahabharata

Adi Parva, Adhyaya 97, Verse 22

यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत्

सुहृदश्च प्रहृष्येरंस्तथा कुरु परंतप

Mahabharata

Adi Parva, Adhyaya 97, Verse 23

लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्

धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम्

Mahabharata

Adi Parva, Adhyaya 97, Verse 24

राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः

सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते

Mahabharata

Adi Parva, Adhyaya 97, Verse 25

शंतनोरपि संतानं यथा स्यादक्षयं भुवि

तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्

Mahabharata

Adi Parva, Adhyaya 97, Verse 26

श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः

आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च