Adi Parva, Adhyaya 96, Verse 1
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ
पालयामास तद्राज्यं सत्यवत्या मते स्थितः
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ
पालयामास तद्राज्यं सत्यवत्या मते स्थितः
संप्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम्
भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम्
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः
शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम्
ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत्
जगामानुमते मातुः पुरीं वाराणसीं प्रति
तत्र राज्ञः समुदितान्सर्वतः समुपागतान्
ददर्श कन्यास्ताश्चैव भीष्मः शंतनुनन्दनः
कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः
भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः
उवाच च महीपालान्राजञ्जलदनिःस्वनः
रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः
अलंकृत्य यथाशक्ति प्रदाय च धनान्यपि
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि
वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च
प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते
अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम्
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च
प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः
ते यतध्वं परं शक्त्या विजयायेतराय वा
स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान्
सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम्
आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः
संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान्
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम्
आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत्
ताराणामिव संपातो बभूव जनमेजय
भूषणानां च शुभ्राणां कवचानां च सर्वशः
सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः
सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा
सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान्
रथानास्थाय ते वीराः सर्वप्रहरणान्विताः
प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः
ततः समभवद्युद्धं तेषां तस्य च भारत
एकस्य च बहूनां च तुमुलं लोमहर्षणम्
ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन्
अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत्
ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन्
ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः
स तद्बाणमयं वर्षं शरैरावार्य सर्वतः
ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः
तस्याति पुरुषानन्याँल्लाघवं रथचारिणः
रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन्
तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः
कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः
अभ्याहनदमेयात्मा भीष्मं शांतनवं रणे
वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा
वाशितामनुसंप्राप्तो यूथपो बलिनां वरः
स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः
शाल्वराजो महाबाहुरमर्षेणाभिचोदितः
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः
तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन्
क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः
निवर्तयामास रथं शाल्वं प्रति महारथः
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते
प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे