Mahabharata

Adi Parva, Adhyaya 95

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 95, Verse 1

ततो विवाहे निर्वृत्ते स राजा शंतनुर्नृपः

तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत्

Mahabharata

Adi Parva, Adhyaya 95, Verse 2

ततः शांतनवो धीमान्सत्यवत्यामजायत

वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति

Mahabharata

Adi Parva, Adhyaya 95, Verse 3

अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः

विचित्रवीर्यं राजानं जनयामास वीर्यवान्

Mahabharata

Adi Parva, Adhyaya 95, Verse 4

अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ

स राजा शंतनुर्धीमान्कालधर्ममुपेयिवान्

Mahabharata

Adi Parva, Adhyaya 95, Verse 5

स्वर्गते शंतनौ भीष्मश्चित्राङ्गदमरिंदमम्

स्थापयामास वै राज्ये सत्यवत्या मते स्थितः

Mahabharata

Adi Parva, Adhyaya 95, Verse 6

स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान्

मनुष्यं न हि मेने स कंचित्सदृशमात्मनः

Mahabharata

Adi Parva, Adhyaya 95, Verse 7

तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा

गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा

तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह

Mahabharata

Adi Parva, Adhyaya 95, Verse 8

तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः

नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः

Mahabharata

Adi Parva, Adhyaya 95, Verse 9

तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले

मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम्

Mahabharata

Adi Parva, Adhyaya 95, Verse 10

चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम्

अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः

Mahabharata

Adi Parva, Adhyaya 95, Verse 11

तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि

भीष्मः शांतनवो राजन्प्रेतकार्याण्यकारयत्

Mahabharata

Adi Parva, Adhyaya 95, Verse 12

विचित्रवीर्यं च तदा बालमप्राप्तयौवनम्

कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम्

Mahabharata

Adi Parva, Adhyaya 95, Verse 13

विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः

अन्वशासन्महाराज पितृपैतामहं पदम्

Mahabharata

Adi Parva, Adhyaya 95, Verse 14

स धर्मशास्त्रकुशलो भीष्मं शांतनवं नृपः

पूजयामास धर्मेण स चैनं प्रत्यपालयत्