Mahabharata

Adi Parva, Adhyaya 94

Containing 94 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 94, Verse 1

स एवं शंतनुर्धीमान्देवराजर्षिसत्कृतः

धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः

Mahabharata

Adi Parva, Adhyaya 94, Verse 2

दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्

नित्यान्यासन्महासत्त्वे शंतनौ पुरुषर्षभे

Mahabharata

Adi Parva, Adhyaya 94, Verse 3

एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः

आसीद्भरतवंशस्य गोप्ता साधुजनस्य च

Mahabharata

Adi Parva, Adhyaya 94, Verse 4

कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः

धर्म एव परः कामादर्थाच्चेति व्यवस्थितः

Mahabharata

Adi Parva, Adhyaya 94, Verse 5

एतान्यासन्महासत्त्वे शंतनौ भरतर्षभ

न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत्

Mahabharata

Adi Parva, Adhyaya 94, Verse 6

वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम्

तं महीपा महीपालं राजराज्येऽभ्यषेचयन्

Mahabharata

Adi Parva, Adhyaya 94, Verse 7

वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः

प्रति भारतगोप्तारं समपद्यन्त भूमिपाः

Mahabharata

Adi Parva, Adhyaya 94, Verse 8

शंतनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा

नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत

Mahabharata

Adi Parva, Adhyaya 94, Verse 9

ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः

ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः

Mahabharata

Adi Parva, Adhyaya 94, Verse 10

स हास्तिनपुरे रम्ये कुरूणां पुटभेदने

वसन्सागरपर्यन्तामन्वशाद्वै वसुंधराम्

Mahabharata

Adi Parva, Adhyaya 94, Verse 11

स देवराजसदृशो धर्मज्ञः सत्यवागृजुः

दानधर्मतपोयोगाच्छ्रिया परमया युतः

Mahabharata

Adi Parva, Adhyaya 94, Verse 12

अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः

तेजसा सूर्यसंकाशो वायुवेगसमो जवे

अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः

Mahabharata

Adi Parva, Adhyaya 94, Verse 13

वधः पशुवराहाणां तथैव मृगपक्षिणाम्

शंतनौ पृथिवीपाले नावर्तत वृथा नृप

Mahabharata

Adi Parva, Adhyaya 94, Verse 14

धर्मब्रह्मोत्तरे राज्ये शंतनुर्विनयात्मवान्

समं शशास भूतानि कामरागविवर्जितः

Mahabharata

Adi Parva, Adhyaya 94, Verse 15

देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः

न चाधर्मेण केषांचित्प्राणिनामभवद्वधः

Mahabharata

Adi Parva, Adhyaya 94, Verse 16

असुखानामनाथानां तिर्यग्योनिषु वर्तताम्

स एव राजा भूतानां सर्वेषामभवत्पिता

Mahabharata

Adi Parva, Adhyaya 94, Verse 17

तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति

श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः

Mahabharata

Adi Parva, Adhyaya 94, Verse 18

स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः

रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः

Mahabharata

Adi Parva, Adhyaya 94, Verse 19

तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः

गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः

Mahabharata

Adi Parva, Adhyaya 94, Verse 20

सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च

महाबलो महासत्त्वो महावीर्यो महारथः

Mahabharata

Adi Parva, Adhyaya 94, Verse 21

स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम्

भागीरथीमल्पजलां शंतनुर्दृष्टवान्नृपः

Mahabharata

Adi Parva, Adhyaya 94, Verse 22

तां दृष्ट्वा चिन्तयामास शंतनुः पुरुषर्षभः

स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा

Mahabharata

Adi Parva, Adhyaya 94, Verse 23

ततो निमित्तमन्विच्छन्ददर्श स महामनाः

कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम्

Mahabharata

Adi Parva, Adhyaya 94, Verse 24

दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम्

कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम्

Mahabharata

Adi Parva, Adhyaya 94, Verse 25

तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके

अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम्

Mahabharata

Adi Parva, Adhyaya 94, Verse 26

जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस्तदा

नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम्

Mahabharata

Adi Parva, Adhyaya 94, Verse 27

स तु तं पितरं दृष्ट्वा मोहयामास मायया

संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत

Mahabharata

Adi Parva, Adhyaya 94, Verse 28

तदद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः

शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह

Mahabharata

Adi Parva, Adhyaya 94, Verse 29

दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम्

गृहीत्वा दक्षिणे पाणौ तं कुमारमलंकृतम्

Mahabharata

Adi Parva, Adhyaya 94, Verse 30

अलंकृतामाभरणैररजोम्बरधारिणीम्

दृष्टपूर्वामपि सतीं नाभ्यजानात्स शंतनुः