Mahabharata

Adi Parva, Adhyaya 93

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 93, Verse 1

आपवो नाम को न्वेष वसूनां किं च दुष्कृतम्

यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः

Mahabharata

Adi Parva, Adhyaya 93, Verse 2

अनेन च कुमारेण गङ्गादत्तेन किं कृतम्

यस्य चैव कृतेनायं मानुषेषु निवत्स्यति

Mahabharata

Adi Parva, Adhyaya 93, Verse 3

ईशानाः सर्वलोकस्य वसवस्ते च वै कथम्

मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि

Mahabharata

Adi Parva, Adhyaya 93, Verse 4

सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत्

भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम्

Mahabharata

Adi Parva, Adhyaya 93, Verse 5

यं लेभे वरुणः पुत्रं पुरा भरतसत्तम

वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत

Mahabharata

Adi Parva, Adhyaya 93, Verse 6

तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम्

मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम्

Mahabharata

Adi Parva, Adhyaya 93, Verse 7

स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम

वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके

Mahabharata

Adi Parva, Adhyaya 93, Verse 8

दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता

गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ

Mahabharata

Adi Parva, Adhyaya 93, Verse 9

अनुग्रहार्थं जगतः सर्वकामदुघां वराम्

तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः

Mahabharata

Adi Parva, Adhyaya 93, Verse 10

सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते

चचार रम्ये धर्म्ये च गौरपेतभया तदा

Mahabharata

Adi Parva, Adhyaya 93, Verse 11

अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ

पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम्

Mahabharata

Adi Parva, Adhyaya 93, Verse 12

ते सदारा वनं तच्च व्यचरन्त समन्ततः

रेमिरे रमणीयेषु पर्वतेषु वनेषु च

Mahabharata

Adi Parva, Adhyaya 93, Verse 13

तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम

सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा

या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा

Mahabharata

Adi Parva, Adhyaya 93, Verse 14

सा विस्मयसमाविष्टा शीलद्रविणसंपदा

दिवे वै दर्शयामास तां गां गोवृषभेक्षण

Mahabharata

Adi Parva, Adhyaya 93, Verse 15

स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम्

उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च

Mahabharata

Adi Parva, Adhyaya 93, Verse 16

एवंगुणसमायुक्तां वसवे वसुनन्दिनी

दर्शयामास राजेन्द्र पुरा पौरवनन्दन

Mahabharata

Adi Parva, Adhyaya 93, Verse 17

द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम

उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन्

Mahabharata

Adi Parva, Adhyaya 93, Verse 18

एषा गौरुत्तमा देवि वारुणेरसितेक्षणे

ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम्

Mahabharata

Adi Parva, Adhyaya 93, Verse 19

अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे

दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः

Mahabharata

Adi Parva, Adhyaya 93, Verse 20

एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा

तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम्

Mahabharata

Adi Parva, Adhyaya 93, Verse 21

अस्ति मे मानुषे लोके नरदेवात्मजा सखी

नाम्ना जिनवती नाम रूपयौवनशालिनी

Mahabharata

Adi Parva, Adhyaya 93, Verse 22

उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः

दुहिता प्रथिता लोके मानुषे रूपसंपदा

Mahabharata

Adi Parva, Adhyaya 93, Verse 23

तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम्

आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन

Mahabharata

Adi Parva, Adhyaya 93, Verse 24

यावदस्याः पयः पीत्वा सा सखी मम मानद

मानुषेषु भवत्वेका जरारोगविवर्जिता

Mahabharata

Adi Parva, Adhyaya 93, Verse 25

एतन्मम महाभाग कर्तुमर्हस्यनिन्दित

प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन

Mahabharata

Adi Parva, Adhyaya 93, Verse 26

एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया

पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम्

Mahabharata

Adi Parva, Adhyaya 93, Verse 27

तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप

ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम्

हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः

Mahabharata

Adi Parva, Adhyaya 93, Verse 28

अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः

न चापश्यत गां तत्र सवत्सां काननोत्तमे

Mahabharata

Adi Parva, Adhyaya 93, Verse 29

ततः स मृगयामास वने तस्मिंस्तपोधनः

नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः

Mahabharata

Adi Parva, Adhyaya 93, Verse 30

ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः

ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा