Mahabharata

Adi Parva, Adhyaya 92

Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 92, Verse 1

ततः प्रतीपो राजा स सर्वभूतहिते रतः

निषसाद समा बह्वीर्गङ्गातीरगतो जपन्

Mahabharata

Adi Parva, Adhyaya 92, Verse 2

तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी

उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः

Mahabharata

Adi Parva, Adhyaya 92, Verse 3

अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी

दक्षिणं शालसंकाशमूरुं भेजे शुभानना

Mahabharata

Adi Parva, Adhyaya 92, Verse 4

प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम्

करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम्

Mahabharata

Adi Parva, Adhyaya 92, Verse 5

त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम्

त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः

Mahabharata

Adi Parva, Adhyaya 92, Verse 6

नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि

न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम्

Mahabharata

Adi Parva, Adhyaya 92, Verse 7

नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित्

भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम्

Mahabharata

Adi Parva, Adhyaya 92, Verse 8

मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम्

अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः

Mahabharata

Adi Parva, Adhyaya 92, Verse 9

प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने

अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम्

Mahabharata

Adi Parva, Adhyaya 92, Verse 10

सव्यतः कामिनीभागस्त्वया स च विवर्जितः

तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने

Mahabharata

Adi Parva, Adhyaya 92, Verse 11

स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम्

स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता

Mahabharata

Adi Parva, Adhyaya 92, Verse 12

एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते

त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम्

Mahabharata

Adi Parva, Adhyaya 92, Verse 13

पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम्

गुणा न हि मया शक्या वक्तुं वर्षशतैरपि

कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम्

Mahabharata

Adi Parva, Adhyaya 92, Verse 14

स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो

तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित्

Mahabharata

Adi Parva, Adhyaya 92, Verse 15

एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम्

पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः

Mahabharata

Adi Parva, Adhyaya 92, Verse 16

तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत

पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत्

Mahabharata

Adi Parva, Adhyaya 92, Verse 17

एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः

तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन

Mahabharata

Adi Parva, Adhyaya 92, Verse 18

तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः

शान्तस्य जज्ञे संतानस्तस्मादासीत्स शंतनुः

Mahabharata

Adi Parva, Adhyaya 92, Verse 19

संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा

पुण्यकर्मकृदेवासीच्छंतनुः कुरुसत्तम

Mahabharata

Adi Parva, Adhyaya 92, Verse 20

प्रतीपः शंतनुं पुत्रं यौवनस्थं ततोऽन्वशात्

पुरा मां स्त्री समभ्यागाच्छंतनो भूतये तव

Mahabharata

Adi Parva, Adhyaya 92, Verse 21

त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी

कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया

सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने

Mahabharata

Adi Parva, Adhyaya 92, Verse 22

यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ

मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम्

Mahabharata

Adi Parva, Adhyaya 92, Verse 23

एवं संदिश्य तनयं प्रतीपः शंतनुं तदा

स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह

Mahabharata

Adi Parva, Adhyaya 92, Verse 24

स राजा शंतनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः

बभूव मृगयाशीलः सततं वनगोचरः

Mahabharata

Adi Parva, Adhyaya 92, Verse 25

स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः

गङ्गामनुचचारैकः सिद्धचारणसेविताम्

Mahabharata

Adi Parva, Adhyaya 92, Verse 26

स कदाचिन्महाराज ददर्श परमस्त्रियम्

जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम्

Mahabharata

Adi Parva, Adhyaya 92, Verse 27

सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्

सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम्

Mahabharata

Adi Parva, Adhyaya 92, Verse 28

तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसंपदा

पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः

Mahabharata

Adi Parva, Adhyaya 92, Verse 29

सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्

स्नेहादागतसौहार्दा नातृप्यत विलासिनी

Mahabharata

Adi Parva, Adhyaya 92, Verse 30

तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा

देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः