Adi Parva, Adhyaya 91, Verse 1
इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः
महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः
महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः
सोऽश्वमेधसहस्रेण वाजपेयशतेन च
तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः
ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः
तत्र राजर्षयो आसन्स च राजा महाभिषः
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम्
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम्
ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा
महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम्
अपध्यातो भगवता ब्रह्मणा स महाभिषः
उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि
स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान्
प्रतीपं रोचयामास पितरं भूरिवर्चसम्
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम्
तमेव मनसाध्यायमुपावर्तत्सरिद्वरा
सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः
ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः
तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा
किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम्
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि
अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम्
संध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा
तेन कोपाद्वयं शप्ता योनौ संभवतेति ह
न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना
त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि
न मानुषीणां जठरं प्रविशेमाशुभं वयम्
इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम्
मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति
प्रतीपस्य सुतो राजा शंतनुर्नाम धार्मिकः
भविता मानुषे लोके स नः कर्ता भविष्यति
ममाप्येवं मतं देवा यथावदत मानघाः
प्रियं तस्य करिष्यामि युष्माकं चैतदीप्सितम्
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि
यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम्
नास्य मोघः संगमः स्यात्पुत्रहेतोर्मया सह
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः
न संपत्स्यति मर्त्येषु पुनस्तस्य तु संततिः
तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान्
एवं ते समयं कृत्वा गङ्गया वसवः सह
जग्मुः प्रहृष्टमनसो यथासंकल्पमञ्जसा