Mahabharata

Adi Parva, Adhyaya 89

Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 89, Verse 1

भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान्

यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः

Mahabharata

Adi Parva, Adhyaya 89, Verse 2

न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः

प्रजाविरहितो वापि भूतपूर्वः कदाचन

Mahabharata

Adi Parva, Adhyaya 89, Verse 3

तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम्

चरितं श्रोतुमिच्छामि विस्तरेण तपोधन

Mahabharata

Adi Parva, Adhyaya 89, Verse 4

हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि

पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः

Mahabharata

Adi Parva, Adhyaya 89, Verse 5

प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः

पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत्

Mahabharata

Adi Parva, Adhyaya 89, Verse 6

मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः

पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः

Mahabharata

Adi Parva, Adhyaya 89, Verse 7

सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः

मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः

Mahabharata

Adi Parva, Adhyaya 89, Verse 8

रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः

यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः

सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः

Mahabharata

Adi Parva, Adhyaya 89, Verse 9

ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान्

स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः

Mahabharata

Adi Parva, Adhyaya 89, Verse 10

तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः

धर्मेपुः संनतेपुश्च दशमो देवविक्रमः

अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः

Mahabharata

Adi Parva, Adhyaya 89, Verse 11

मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत्

मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः

तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः

Mahabharata

Adi Parva, Adhyaya 89, Verse 12

तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन्

आजहार यशो दीप्तं जिगाय च वसुंधराम्

Mahabharata

Adi Parva, Adhyaya 89, Verse 13

इलिनं तु सुतं तंसुर्जनयामास वीर्यवान्

सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः

Mahabharata

Adi Parva, Adhyaya 89, Verse 14

रथंतर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः

इलिनो जनयामास दुःषन्तप्रभृतीन्नृप

Mahabharata

Adi Parva, Adhyaya 89, Verse 15

दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च

तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय

Mahabharata

Adi Parva, Adhyaya 89, Verse 16

दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः

तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः

Mahabharata

Adi Parva, Adhyaya 89, Verse 17

भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत्

नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत

Mahabharata

Adi Parva, Adhyaya 89, Verse 18

ततो महद्भिः क्रतुभिरीजानो भरतस्तदा

लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत

Mahabharata

Adi Parva, Adhyaya 89, Verse 19

ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः

भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत्

Mahabharata

Adi Parva, Adhyaya 89, Verse 20

ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत्

ततः स वितथो नाम भुमन्योरभवत्सुतः

Mahabharata

Adi Parva, Adhyaya 89, Verse 21

सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा

पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः

Mahabharata

Adi Parva, Adhyaya 89, Verse 22

तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम्

राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः

Mahabharata

Adi Parva, Adhyaya 89, Verse 23

सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम्

पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम्

Mahabharata

Adi Parva, Adhyaya 89, Verse 24

ममज्जेव मही तस्य भूरिभारावपीडिता

हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम्

Mahabharata

Adi Parva, Adhyaya 89, Verse 25

सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः

चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः

प्रवृद्धजनसस्या च सहदेवा व्यरोचत

Mahabharata

Adi Parva, Adhyaya 89, Verse 26

ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः

अजमीढं सुमीढं च पुरुमीढं च भारत

Mahabharata

Adi Parva, Adhyaya 89, Verse 27

अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः

षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत

Mahabharata

Adi Parva, Adhyaya 89, Verse 28

ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ

केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ

Mahabharata

Adi Parva, Adhyaya 89, Verse 29

तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः

अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः

Mahabharata

Adi Parva, Adhyaya 89, Verse 30

जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम्

ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव