Mahabharata

Adi Parva, Adhyaya 88

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 88, Verse 1

पृच्छामि त्वां वसुमना रौशदश्वि;र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र

यद्यन्तरिक्षे प्रथितो महात्म;न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये

Mahabharata

Adi Parva, Adhyaya 88, Verse 2

यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च

लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति

Mahabharata

Adi Parva, Adhyaya 88, Verse 3

तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु

क्रीणीष्वैनांस्तृणकेनापि राज;न्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः

Mahabharata

Adi Parva, Adhyaya 88, Verse 4

न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः

कुर्यां न चैवाकृतपूर्वमन्यै;र्विवित्समानः किमु तत्र साधु

Mahabharata

Adi Parva, Adhyaya 88, Verse 5

तांस्त्वं लोकान्प्रतिपद्यस्व राज;न्मया दत्तान्यदि नेष्टः क्रयस्ते

अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु

Mahabharata

Adi Parva, Adhyaya 88, Verse 6

पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात

यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये

Mahabharata

Adi Parva, Adhyaya 88, Verse 7

न त्वं वाचा हृदयेनापि विद्व;न्परीप्समानान्नावमंस्था नरेन्द्र

तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः

Mahabharata

Adi Parva, Adhyaya 88, Verse 8

तांस्त्वं लोकान्प्रतिपद्यस्व राज;न्मया दत्तान्यदि नेष्टः क्रयस्ते

न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान्

Mahabharata

Adi Parva, Adhyaya 88, Verse 9

यथा त्वमिन्द्रप्रतिमप्रभाव;स्ते चाप्यनन्ता नरदेव लोकाः

तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम्

Mahabharata

Adi Parva, Adhyaya 88, Verse 10

न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि

सर्वे प्रदाय भवते गन्तारो नरकं वयम्

Mahabharata

Adi Parva, Adhyaya 88, Verse 11

यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः

अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा

Mahabharata

Adi Parva, Adhyaya 88, Verse 12

कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः

उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव

Mahabharata

Adi Parva, Adhyaya 88, Verse 13

युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः

उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव

Mahabharata

Adi Parva, Adhyaya 88, Verse 14

आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा

वयमप्यनुयास्यामो यदा कालो भविष्यति

Mahabharata

Adi Parva, Adhyaya 88, Verse 15

सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम्

एष नो विरजाः पन्था दृश्यते देवसद्मनः

Mahabharata

Adi Parva, Adhyaya 88, Verse 16

तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः

आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी

Mahabharata

Adi Parva, Adhyaya 88, Verse 17

अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा

कस्मादेवं शिबिरौशीनरोऽय;मेकोऽत्यगात्सर्ववेगेन वाहान्

Mahabharata

Adi Parva, Adhyaya 88, Verse 18

अददाद्देवयानाय यावद्वित्तमविन्दत

उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः

Mahabharata

Adi Parva, Adhyaya 88, Verse 19

दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा

राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या

एवंवृत्तो ह्रीनिषेधश्च यस्मा;त्तस्माच्छिबिरत्यगाद्वै रथेन

Mahabharata

Adi Parva, Adhyaya 88, Verse 20

अथाष्टकः पुनरेवान्वपृच्छ;न्मातामहं कौतुकादिन्द्रकल्पम्

पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य

कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा

Mahabharata

Adi Parva, Adhyaya 88, Verse 21

ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम्

गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः

Mahabharata

Adi Parva, Adhyaya 88, Verse 22

सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः

मेध्यानश्वानेकशफान्सुरूपां;स्तदा देवाः पुण्यभाजो भवन्ति

Mahabharata

Adi Parva, Adhyaya 88, Verse 23

अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य

गोभिः सुवर्णेन धनैश्च मुख्यै;स्तत्रासन्गाः शतमर्बुदानि

Mahabharata

Adi Parva, Adhyaya 88, Verse 24

सत्येन मे द्यौश्च वसुंधरा च; तथैवाग्निर्ज्वलते मानुषेषु

न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति

सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम्

Mahabharata

Adi Parva, Adhyaya 88, Verse 25

यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत्

अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम्

Mahabharata

Adi Parva, Adhyaya 88, Verse 26

एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः

त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम्