Mahabharata

Adi Parva, Adhyaya 87

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 87, Verse 1

कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम्

उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव

Mahabharata

Adi Parva, Adhyaya 87, Verse 2

अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः

ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः

Mahabharata

Adi Parva, Adhyaya 87, Verse 3

अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत्

तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः

Mahabharata

Adi Parva, Adhyaya 87, Verse 4

यद्वै नृशंसं तदपथ्यमाहु;र्यः सेवते धर्ममनर्थबुद्धिः

अस्वोऽप्यनीशश्च तथैव राजं;स्तदार्जवं स समाधिस्तदार्यम्

Mahabharata

Adi Parva, Adhyaya 87, Verse 5

केनासि दूतः प्रहितोऽद्य राज;न्युवा स्रग्वी दर्शनीयः सुवर्चाः

कुत आगतः कतरस्यां दिशि त्व;मुताहोस्वित्पार्थिवं स्थानमस्ति

Mahabharata

Adi Parva, Adhyaya 87, Verse 6

इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः

उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः

Mahabharata

Adi Parva, Adhyaya 87, Verse 7

सतां सकाशे तु वृतः प्रपात;स्ते संगता गुणवन्तश्च सर्वे

शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र

Mahabharata

Adi Parva, Adhyaya 87, Verse 8

पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र

यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये

Mahabharata

Adi Parva, Adhyaya 87, Verse 9

यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च

तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह

Mahabharata

Adi Parva, Adhyaya 87, Verse 10

तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति

यद्यन्तरिक्षे यदि वा दिवि श्रिता;स्तानाक्रम क्षिप्रममित्रसाह

Mahabharata

Adi Parva, Adhyaya 87, Verse 11

नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य

यथा प्रदेयं सततं द्विजेभ्य;स्तथाददं पूर्वमहं नरेन्द्र

Mahabharata

Adi Parva, Adhyaya 87, Verse 12

नाब्राह्मणः कृपणो जातु जीवे;द्या चापि स्याद्ब्राह्मणी वीरपत्नी

सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु

Mahabharata

Adi Parva, Adhyaya 87, Verse 13

पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः

यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये

Mahabharata

Adi Parva, Adhyaya 87, Verse 14

सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि

मधुच्युतो घृतपृक्ता विशोका;स्ते नान्तवन्तः प्रतिपालयन्ति

Mahabharata

Adi Parva, Adhyaya 87, Verse 15

तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु

यद्यन्तरिक्षे यदि वा दिवि श्रिता;स्तानाक्रम क्षिप्रमपेतमोहः

Mahabharata

Adi Parva, Adhyaya 87, Verse 16

न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन्

दैवादेशादापदं प्राप्य विद्वां;श्चरेन्नृशंसं न हि जातु राजा

Mahabharata

Adi Parva, Adhyaya 87, Verse 17

धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः

न मद्विधो धर्मबुद्धिः प्रजान;न्कुर्यादेवं कृपणं मां यथात्थ

Mahabharata

Adi Parva, Adhyaya 87, Verse 18

कुर्यामपूर्वं न कृतं यदन्यै;र्विवित्समानः किमु तत्र साधु

ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम्