Adi Parva, Adhyaya 86, Verse 1
चरन्गृहस्थः कथमेति देवा;न्कथं भिक्षुः कथमाचार्यकर्मा
वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्संप्रति वेदयन्ति
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
चरन्गृहस्थः कथमेति देवा;न्कथं भिक्षुः कथमाचार्यकर्मा
वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्संप्रति वेदयन्ति
आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी
मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी
धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च
अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी
स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी
तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः
अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः
अनोकसारी लघुरल्पचार;श्चरन्देशानेकचरः स भिक्षुः
रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च
तामेव रात्रिं प्रयतेत विद्वा;नरण्यसंस्थो भवितुं यतात्मा
दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम्
अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून्
कति स्विदेव मुनयो मौनानि कति चाप्युत
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम्
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप
कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत्
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः
अनग्निरनिकेतश्च अगोत्रचरणो मुनिः
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम्
यावत्प्राणाभिसंधानं तावदिच्छेच्च भोजनम्
तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः
आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात्
धौतदन्तं कृत्तनखं सदा स्नातमलंकृतम्
असितं सितकर्मस्थं कस्तं नार्चितुमर्हति
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः
यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः
अथ लोकमिमं जित्वा लोकं विजयते परम्
आस्येन तु यदाहारं गोवन्मृगयते मुनिः
अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते