Mahabharata

Adi Parva, Adhyaya 85

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 85, Verse 1

यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम्

किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः

Mahabharata

Adi Parva, Adhyaya 85, Verse 2

ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि

तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसंघाः

Mahabharata

Adi Parva, Adhyaya 85, Verse 3

कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम्

किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे

Mahabharata

Adi Parva, Adhyaya 85, Verse 4

इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे

ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति

Mahabharata

Adi Parva, Adhyaya 85, Verse 5

तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म

आख्यातं ते पार्थिव सर्वमेत;द्भूयश्चेदानीं वद किं ते वदामि

Mahabharata

Adi Parva, Adhyaya 85, Verse 6

यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः

कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि

Mahabharata

Adi Parva, Adhyaya 85, Verse 7

ऊर्ध्वं देहात्कर्मणो जृम्भमाणा;द्व्यक्तं पृथिव्यामनुसंचरन्ति

इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान्

Mahabharata

Adi Parva, Adhyaya 85, Verse 8

षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि

तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः

Mahabharata

Adi Parva, Adhyaya 85, Verse 9

यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः

कथं भवन्ति कथमाभवन्ति; कथंभूता गर्भभूता भवन्ति

Mahabharata

Adi Parva, Adhyaya 85, Verse 10

अस्रं रेतः पुष्पफलानुपृक्त;मन्वेति तद्वै पुरुषेण सृष्टम्

स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र

Mahabharata

Adi Parva, Adhyaya 85, Verse 11

वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम्

चतुष्पदं द्विपदं चापि सर्व;मेवंभूता गर्भभूता भवन्ति

Mahabharata

Adi Parva, Adhyaya 85, Verse 12

अन्यद्वपुर्विदधातीह गर्भ; उताहोस्वित्स्वेन कामेन याति

आपद्यमानो नरयोनिमेता;माचक्ष्व मे संशयात्प्रब्रवीमि

Mahabharata

Adi Parva, Adhyaya 85, Verse 13

शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन संज्ञाम्

एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे

Mahabharata

Adi Parva, Adhyaya 85, Verse 14

वायुः समुत्कर्षति गर्भयोनि;मृतौ रेतः पुष्परसानुपृक्तम्

स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम्

Mahabharata

Adi Parva, Adhyaya 85, Verse 15

स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः

स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च

Mahabharata

Adi Parva, Adhyaya 85, Verse 16

घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम्

इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे

Mahabharata

Adi Parva, Adhyaya 85, Verse 17

यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा

अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात्

Mahabharata

Adi Parva, Adhyaya 85, Verse 18

हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च

अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह

Mahabharata

Adi Parva, Adhyaya 85, Verse 19

पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति

कीटाः पतंगाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव

Mahabharata

Adi Parva, Adhyaya 85, Verse 20

चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति

आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह

Mahabharata

Adi Parva, Adhyaya 85, Verse 21

किं स्वित्कृत्वा लभते तात लोका;न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा

तन्मे पृष्टः शंस सर्वं यथाव;च्छुभाँल्लोकान्येन गच्छेत्क्रमेण

Mahabharata

Adi Parva, Adhyaya 85, Verse 22

तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा

नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः

Mahabharata

Adi Parva, Adhyaya 85, Verse 23

अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम्

तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति

Mahabharata

Adi Parva, Adhyaya 85, Verse 24

चत्वारि कर्माण्यभयंकराणि; भयं प्रयच्छन्त्ययथाकृतानि

मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः

Mahabharata

Adi Parva, Adhyaya 85, Verse 25

न मान्यमानो मुदमाददीत; न संतापं प्राप्नुयाच्चावमानात्

सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते

Mahabharata

Adi Parva, Adhyaya 85, Verse 26

इति दद्यादिति यजेदित्यधीयीत मे व्रतम्

इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः

Mahabharata

Adi Parva, Adhyaya 85, Verse 27

येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम्

तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह