Mahabharata

Adi Parva, Adhyaya 84

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 84, Verse 1

अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात्

प्रभ्रंशितः सुरसिद्धर्षिलोका;त्परिच्युतः प्रपताम्यल्पपुण्यः

Mahabharata

Adi Parva, Adhyaya 84, Verse 2

अहं हि पूर्वो वयसा भवद्भ्य;स्तेनाभिवादं भवतां न प्रयुञ्जे

यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम्

Mahabharata

Adi Parva, Adhyaya 84, Verse 3

अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथंचित्

यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम्

Mahabharata

Adi Parva, Adhyaya 84, Verse 4

प्रतिकूलं कर्मणां पापमाहु;स्तद्वर्ततेऽप्रवणे पापलोक्यम्

सन्तोऽसतां नानुवर्तन्ति चैत;द्यथा आत्मैषामनुकूलवादी

Mahabharata

Adi Parva, Adhyaya 84, Verse 5

अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि

एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन्

Mahabharata

Adi Parva, Adhyaya 84, Verse 6

नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः

तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या

Mahabharata

Adi Parva, Adhyaya 84, Verse 7

सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या

तस्माद्दिष्टं बलवन्मन्यमानो; न संज्वरेन्नापि हृष्येत्कदाचित्

Mahabharata

Adi Parva, Adhyaya 84, Verse 8

दुःखे न तप्येन्न सुखेन हृष्ये;त्समेन वर्तेत सदैव धीरः

दिष्टं बलीय इति मन्यमानो; न संज्वरेन्नापि हृष्येत्कदाचित्

Mahabharata

Adi Parva, Adhyaya 84, Verse 9

भये न मुह्याम्यष्टकाहं कदाचि;त्संतापो मे मानसो नास्ति कश्चित्

धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा

Mahabharata

Adi Parva, Adhyaya 84, Verse 10

संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः

तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते

Mahabharata

Adi Parva, Adhyaya 84, Verse 11

अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्संतापमष्टकाहं भजेयम्

किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्संतापं वर्जयाम्यप्रमत्तः

Mahabharata

Adi Parva, Adhyaya 84, Verse 12

ये ये लोकाः पार्थिवेन्द्र प्रधाना;स्त्वया भुक्ता यं च कालं यथा च

तन्मे राजन्ब्रूहि सर्वं यथाव;त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान्

Mahabharata

Adi Parva, Adhyaya 84, Verse 13

राजाहमासमिह सार्वभौम;स्ततो लोकान्महतो अजयं वै

तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः

Mahabharata

Adi Parva, Adhyaya 84, Verse 14

ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम्

अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः

Mahabharata

Adi Parva, Adhyaya 84, Verse 15

ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम्

तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः

Mahabharata

Adi Parva, Adhyaya 84, Verse 16

देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम्

संपूज्यमानस्त्रिदशैः समस्तै;स्तुल्यप्रभावद्युतिरीश्वराणाम्

Mahabharata

Adi Parva, Adhyaya 84, Verse 17

तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम्

सहाप्सरोभिर्विहरन्पुण्यगन्धा;न्पश्यन्नगान्पुष्पितांश्चारुरूपान्

Mahabharata

Adi Parva, Adhyaya 84, Verse 18

तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम्

दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण

Mahabharata

Adi Parva, Adhyaya 84, Verse 19

एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः

वाचोऽश्रौषं चान्तरिक्षे सुराणा;मनुक्रोशाच्छोचतां मानवेन्द्र

Mahabharata

Adi Parva, Adhyaya 84, Verse 20

अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः

तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु

Mahabharata

Adi Parva, Adhyaya 84, Verse 21

तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि

हविर्गन्धं देशिकं यज्ञभूमे;र्धूमापाङ्गं प्रतिगृह्य प्रतीतः