Mahabharata

Adi Parva, Adhyaya 83

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 83, Verse 1

सर्वाणि कर्माणि समाप्य राज;न्गृहान्परित्यज्य वनं गतोऽसि

तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते

Mahabharata

Adi Parva, Adhyaya 83, Verse 2

नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु

आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव

Mahabharata

Adi Parva, Adhyaya 83, Verse 3

यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः

तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन्

Mahabharata

Adi Parva, Adhyaya 83, Verse 4

सुरर्षिगन्धर्वनरावमाना;त्क्षयं गता मे यदि शक्र लोकाः

इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज

Mahabharata

Adi Parva, Adhyaya 83, Verse 5

सतां सकाशे पतितासि राजं;श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः

एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च

Mahabharata

Adi Parva, Adhyaya 83, Verse 6

ततः प्रहायामरराजजुष्टा;न्पुण्याँल्लोकान्पतमानं ययातिम्

संप्रेक्ष्य राजर्षिवरोऽष्टकस्त;मुवाच सद्धर्मविधानगोप्ता

Mahabharata

Adi Parva, Adhyaya 83, Verse 7

कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः

पतस्युदीर्णाम्बुधरान्धकारा;त्खात्खेचराणां प्रवरो यथार्कः

Mahabharata

Adi Parva, Adhyaya 83, Verse 8

दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम्

किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः

Mahabharata

Adi Parva, Adhyaya 83, Verse 9

दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम्

अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः

Mahabharata

Adi Parva, Adhyaya 83, Verse 10

न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः

तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः

Mahabharata

Adi Parva, Adhyaya 83, Verse 11

भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप

त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः

Mahabharata

Adi Parva, Adhyaya 83, Verse 12

सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प

ते संगताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु

Mahabharata

Adi Parva, Adhyaya 83, Verse 13

प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः

प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः