Mahabharata

Adi Parva, Adhyaya 82

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 82, Verse 1

स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि

पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा

Mahabharata

Adi Parva, Adhyaya 82, Verse 2

देवलोकाद्ब्रह्मलोकं संचरन्पुण्यकृद्वशी

अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः

Mahabharata

Adi Parva, Adhyaya 82, Verse 3

स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत्

कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः

Mahabharata

Adi Parva, Adhyaya 82, Verse 4

यदा स पूरुस्तव रूपेण राज;ञ्जरां गृहीत्वा प्रचचार भूमौ

तदा राज्यं संप्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम्

Mahabharata

Adi Parva, Adhyaya 82, Verse 5

गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव

मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव

Mahabharata

Adi Parva, Adhyaya 82, Verse 6

अक्रोधनः क्रोधनेभ्यो विशिष्ट;स्तथा तितिक्षुरतितिक्षोर्विशिष्टः

अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः

Mahabharata

Adi Parva, Adhyaya 82, Verse 7

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः

आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति

Mahabharata

Adi Parva, Adhyaya 82, Verse 8

नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत

ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम्

Mahabharata

Adi Parva, Adhyaya 82, Verse 9

अरुंतुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान्

विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम्

Mahabharata

Adi Parva, Adhyaya 82, Verse 10

सद्भिः पुरस्तादभिपूजितः स्या;त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात्

सदासतामतिवादांस्तितिक्षे;त्सतां वृत्तं चाददीतार्यवृत्तः

Mahabharata

Adi Parva, Adhyaya 82, Verse 11

वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि

परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु

Mahabharata

Adi Parva, Adhyaya 82, Verse 12

न हीदृशं संवननं त्रिषु लोकेषु विद्यते

यथा मैत्री च भूतेषु दानं च मधुरा च वाक्

Mahabharata

Adi Parva, Adhyaya 82, Verse 13

तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित्

पूज्यान्संपूजयेद्दद्यान्न च याचेत्कदाचन