Mahabharata

Adi Parva, Adhyaya 81

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 81, Verse 1

एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम्

राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः

Mahabharata

Adi Parva, Adhyaya 81, Verse 2

उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः

फलमूलाशनो दान्तो यथा स्वर्गमितो गतः

Mahabharata

Adi Parva, Adhyaya 81, Verse 3

स गतः सुरवासं तं निवसन्मुदितः सुखम्

कालस्य नातिमहतः पुनः शक्रेण पातितः

Mahabharata

Adi Parva, Adhyaya 81, Verse 4

निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम्

स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया

Mahabharata

Adi Parva, Adhyaya 81, Verse 5

तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः

राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान्

प्रतर्दनेन शिबिना समेत्य किल संसदि

Mahabharata

Adi Parva, Adhyaya 81, Verse 6

कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः

सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः

कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ

Mahabharata

Adi Parva, Adhyaya 81, Verse 7

देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः

वर्धनः कुरुवंशस्य विभावसुसमद्युतिः

Mahabharata

Adi Parva, Adhyaya 81, Verse 8

तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः

चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः

Mahabharata

Adi Parva, Adhyaya 81, Verse 9

हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम्

दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम्

Mahabharata

Adi Parva, Adhyaya 81, Verse 10

ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम्

राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा

Mahabharata

Adi Parva, Adhyaya 81, Verse 11

अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान्

फलमूलाशनो राजा वने संन्यवसच्चिरम्

Mahabharata

Adi Parva, Adhyaya 81, Verse 12

संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः

अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः

Mahabharata

Adi Parva, Adhyaya 81, Verse 13

अतिथीन्पूजयामास वन्येन हविषा विभुः

शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः

Mahabharata

Adi Parva, Adhyaya 81, Verse 14

पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः

अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः

Mahabharata

Adi Parva, Adhyaya 81, Verse 15

ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः

पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः

Mahabharata

Adi Parva, Adhyaya 81, Verse 16

एकपादस्थितश्चासीत्षण्मासाननिलाशनः

पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी