Mahabharata

Adi Parva, Adhyaya 77

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 77, Verse 1

ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम्

प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत्

Mahabharata

Adi Parva, Adhyaya 77, Verse 2

देवयान्याश्चानुमते तां सुतां वृषपर्वणः

अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत्

Mahabharata

Adi Parva, Adhyaya 77, Verse 3

वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम्

वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम्

Mahabharata

Adi Parva, Adhyaya 77, Verse 4

देवयान्या तु सहितः स नृपो नहुषात्मजः

विजहार बहूनब्दान्देववन्मुदितो भृशम्

Mahabharata

Adi Parva, Adhyaya 77, Verse 5

ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना

लेभे गर्भं प्रथमतः कुमारं च व्यजायत

Mahabharata

Adi Parva, Adhyaya 77, Verse 6

गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी

ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत्

Mahabharata

Adi Parva, Adhyaya 77, Verse 7

ऋतुकालश्च संप्राप्तो न च मेऽस्ति पतिर्वृतः

किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत्

Mahabharata

Adi Parva, Adhyaya 77, Verse 8

देवयानी प्रजातासौ वृथाहं प्राप्तयौवना

यथा तया वृतो भर्ता तथैवाहं वृणोमि तम्

Mahabharata

Adi Parva, Adhyaya 77, Verse 9

राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः

अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः

Mahabharata

Adi Parva, Adhyaya 77, Verse 10

अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया

अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः

Mahabharata

Adi Parva, Adhyaya 77, Verse 11

तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी

प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 77, Verse 12

सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा

तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति

Mahabharata

Adi Parva, Adhyaya 77, Verse 13

रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा

सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप

Mahabharata

Adi Parva, Adhyaya 77, Verse 14

वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम्

रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम्

Mahabharata

Adi Parva, Adhyaya 77, Verse 15

अब्रवीदुशना काव्यो देवयानीं यदावहम्

नेयमाह्वयितव्या ते शयने वार्षपर्वणी

Mahabharata

Adi Parva, Adhyaya 77, Verse 16

न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले

प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि

Mahabharata

Adi Parva, Adhyaya 77, Verse 17

पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र

एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति

Mahabharata

Adi Parva, Adhyaya 77, Verse 18

राजा प्रमाणं भूतानां स नश्येत मृषा वदन्

अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे

Mahabharata

Adi Parva, Adhyaya 77, Verse 19

समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः

समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः

Mahabharata

Adi Parva, Adhyaya 77, Verse 20

दातव्यं याचमानेभ्य इति मे व्रतमाहितम्

त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते

Mahabharata

Adi Parva, Adhyaya 77, Verse 21

अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय

त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम्

Mahabharata

Adi Parva, Adhyaya 77, Verse 22

त्रय एवाधना राजन्भार्या दासस्तथा सुतः

यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम्

Mahabharata

Adi Parva, Adhyaya 77, Verse 23

देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी

सा चाहं च त्वया राजन्भरणीये भजस्व माम्

Mahabharata

Adi Parva, Adhyaya 77, Verse 24

एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान्

पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत्

Mahabharata

Adi Parva, Adhyaya 77, Verse 25

समागम्य च शर्मिष्ठां यथाकाममवाप्य च

अन्योन्यमभिसंपूज्य जग्मतुस्तौ यथागतम्

Mahabharata

Adi Parva, Adhyaya 77, Verse 26

तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी

लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात्

Mahabharata

Adi Parva, Adhyaya 77, Verse 27

प्रजज्ञे च ततः काले राजन्राजीवलोचना

कुमारं देवगर्भाभं राजीवनिभलोचनम्