Adi Parva, Adhyaya 75, Verse 1
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह
वृषपर्वाणमासीनमित्युवाचाविचारयन्
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह
वृषपर्वाणमासीनमित्युवाचाविचारयन्
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति
फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे
यदघातयथा विप्रं कचमाङ्गिरसं तदा
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम्
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम
वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम्
स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम्
यथेममात्मनो दोषं न नियच्छस्युपेक्षसे
नाधर्मं न मृषावादं त्वयि जानामि भार्गव
त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान्
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव
समुद्रं संप्रवेक्ष्यामो नान्यदस्ति परायणम्
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः
दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे
प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम्
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः
यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव
भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः
यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर
तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम्
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव
नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम्
यं काममभिकामासि देवयानि शुचिस्मिते
तत्तेऽहं संप्रदास्यामि यदि चेदपि दुर्लभम्
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये
अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता
उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रमानय
यं च कामयते कामं देवयानी करोतु तम्
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत्
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः
सा यं कामयते कामं स कार्योऽद्य त्वयानघे
सा यं कामयते कामं करवाण्यहमद्य तम्
मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते
ततः कन्यासहस्रेण वृता शिबिकया तदा
पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात्
अहं कन्यासहस्रेण दासी ते परिचारिका
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता
स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः
स्तूयमानस्य दुहिता कथं दासी भविष्यसि
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत्
अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः
देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत्
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम
अमोघं तव विज्ञानमस्ति विद्याबलं च ते
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः
प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः