Mahabharata

Adi Parva, Adhyaya 74

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 74, Verse 1

यः परेषां नरो नित्यमतिवादांस्तितिक्षति

देवयानि विजानीहि तेन सर्वमिदं जितम्

Mahabharata

Adi Parva, Adhyaya 74, Verse 2

यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा

स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते

Mahabharata

Adi Parva, Adhyaya 74, Verse 3

यः समुत्पतितं क्रोधमक्रोधेन निरस्यति

देवयानि विजानीहि तेन सर्वमिदं जितम्

Mahabharata

Adi Parva, Adhyaya 74, Verse 4

यः समुत्पतितं क्रोधं क्षमयेह निरस्यति

यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते

Mahabharata

Adi Parva, Adhyaya 74, Verse 5

यः संधारयते मन्युं योऽतिवादांस्तितिक्षति

यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम्

Mahabharata

Adi Parva, Adhyaya 74, Verse 6

यो यजेदपरिश्रान्तो मासि मासि शतं समाः

न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः

Mahabharata

Adi Parva, Adhyaya 74, Verse 7

यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः

न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम्

Mahabharata

Adi Parva, Adhyaya 74, Verse 8

वेदाहं तात बालापि धर्माणां यदिहान्तरम्

अक्रोधे चातिवादे च वेद चापि बलाबलम्

Mahabharata

Adi Parva, Adhyaya 74, Verse 9

शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता

तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते

Mahabharata

Adi Parva, Adhyaya 74, Verse 10

पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च

न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु

Mahabharata

Adi Parva, Adhyaya 74, Verse 11

ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च

तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते

Mahabharata

Adi Parva, Adhyaya 74, Verse 12

वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः

न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु

यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते