Mahabharata

Adi Parva, Adhyaya 72

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 72, Verse 1

समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा

प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम्

Mahabharata

Adi Parva, Adhyaya 72, Verse 2

ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च

भ्राजसे विद्यया चैव तपसा च दमेन च

Mahabharata

Adi Parva, Adhyaya 72, Verse 3

ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः

तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः

Mahabharata

Adi Parva, Adhyaya 72, Verse 4

एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन

व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि

Mahabharata

Adi Parva, Adhyaya 72, Verse 5

स समावृत्तविद्यो मां भक्तां भजितुमर्हसि

गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम्

Mahabharata

Adi Parva, Adhyaya 72, Verse 6

पूज्यो मान्यश्च भगवान्यथा तव पिता मम

तथा त्वमनवद्याङ्गि पूजनीयतरा मम

Mahabharata

Adi Parva, Adhyaya 72, Verse 7

आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः

त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम

Mahabharata

Adi Parva, Adhyaya 72, Verse 8

यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव

देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि

Mahabharata

Adi Parva, Adhyaya 72, Verse 9

गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः

तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम

Mahabharata

Adi Parva, Adhyaya 72, Verse 10

असुरैर्हन्यमाने च कच त्वयि पुनः पुनः

तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे

Mahabharata

Adi Parva, Adhyaya 72, Verse 11

सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम्

न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम्

Mahabharata

Adi Parva, Adhyaya 72, Verse 12

अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते

प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे

Mahabharata

Adi Parva, Adhyaya 72, Verse 13

यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने

तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि

Mahabharata

Adi Parva, Adhyaya 72, Verse 14

भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने

सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम

Mahabharata

Adi Parva, Adhyaya 72, Verse 15

आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि

अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे

अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम

Mahabharata

Adi Parva, Adhyaya 72, Verse 16

यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः

ततः कच न ते विद्या सिद्धिमेषा गमिष्यति

Mahabharata

Adi Parva, Adhyaya 72, Verse 17

गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः

गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम्

Mahabharata

Adi Parva, Adhyaya 72, Verse 18

आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया

शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः

Mahabharata

Adi Parva, Adhyaya 72, Verse 19

तस्माद्भवत्या यः कामो न तथा स भविष्यति

ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति

Mahabharata

Adi Parva, Adhyaya 72, Verse 20

फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा

अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति

Mahabharata

Adi Parva, Adhyaya 72, Verse 21

एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा

त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः

Mahabharata

Adi Parva, Adhyaya 72, Verse 22

तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः

बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः

Mahabharata

Adi Parva, Adhyaya 72, Verse 23

यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम्

न ते यशः प्रणशिता भागभाङ्नो भविष्यसि