Mahabharata

Adi Parva, Adhyaya 70

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 70, Verse 1

प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च

भरतस्य कुरोः पूरोरजमीढस्य चान्वये

Mahabharata

Adi Parva, Adhyaya 70, Verse 2

यादवानामिमं वंशं पौरवाणां च सर्वशः

तथैव भारतानां च पुण्यं स्वस्त्ययनं महत्

धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ

Mahabharata

Adi Parva, Adhyaya 70, Verse 3

तेजोभिरुदिताः सर्वे महर्षिसमतेजसः

दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः

मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः

Mahabharata

Adi Parva, Adhyaya 70, Verse 4

तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः

संभूताः पुरुषव्याघ्र स हि लोकपितामहः

Mahabharata

Adi Parva, Adhyaya 70, Verse 5

वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिः

आत्मतुल्यानजनयत्सहस्रं संशितव्रतान्

Mahabharata

Adi Parva, Adhyaya 70, Verse 6

सहस्रसंख्यान्समितान्सुतान्दक्षस्य नारदः

मोक्षमध्यापयामास सांख्यज्ञानमनुत्तमम्

Mahabharata

Adi Parva, Adhyaya 70, Verse 7

ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे

प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय

Mahabharata

Adi Parva, Adhyaya 70, Verse 8

ददौ स दश धर्माय कश्यपाय त्रयोदश

कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे

Mahabharata

Adi Parva, Adhyaya 70, Verse 9

त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा

मारीचः कश्यपस्तस्यामादित्यान्समजीजनत्

इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च

Mahabharata

Adi Parva, Adhyaya 70, Verse 10

विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः

मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत

Mahabharata

Adi Parva, Adhyaya 70, Verse 11

मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः

मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत्

ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः

Mahabharata

Adi Parva, Adhyaya 70, Verse 12

तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण संगतम्

ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन्

Mahabharata

Adi Parva, Adhyaya 70, Verse 13

वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च

करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम्

Mahabharata

Adi Parva, Adhyaya 70, Verse 14

पृषध्रनवमानाहुः क्षत्रधर्मपरायणान्

नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान्

Mahabharata

Adi Parva, Adhyaya 70, Verse 15

पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ

अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम्

Mahabharata

Adi Parva, Adhyaya 70, Verse 16

पुरूरवास्ततो विद्वानिलायां समपद्यत

सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम्

Mahabharata

Adi Parva, Adhyaya 70, Verse 17

त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः

अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः

Mahabharata

Adi Parva, Adhyaya 70, Verse 18

विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः

जहार च स विप्राणां रत्नान्युत्क्रोशतामपि

Mahabharata

Adi Parva, Adhyaya 70, Verse 19

सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह

अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ

Mahabharata

Adi Parva, Adhyaya 70, Verse 20

ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत

लोभान्वितो मदबलान्नष्टसंज्ञो नराधिपः

Mahabharata

Adi Parva, Adhyaya 70, Verse 21

स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट्

आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा

Mahabharata

Adi Parva, Adhyaya 70, Verse 22

षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः

दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः

Mahabharata

Adi Parva, Adhyaya 70, Verse 23

नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम्

स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते

Mahabharata

Adi Parva, Adhyaya 70, Verse 24

आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः

राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः

Mahabharata

Adi Parva, Adhyaya 70, Verse 25

पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान्

नहुषः पालयामास ब्रह्मक्षत्रमथो विशः

Mahabharata

Adi Parva, Adhyaya 70, Verse 26

स हत्वा दस्युसंघातानृषीन्करमदापयत्

पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान्

Mahabharata

Adi Parva, Adhyaya 70, Verse 27

कारयामास चेन्द्रत्वमभिभूय दिवौकसः

तेजसा तपसा चैव विक्रमेणौजसा तथा

Mahabharata

Adi Parva, Adhyaya 70, Verse 28

यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम्

नहुषो जनयामास षट्पुत्रान्प्रियवाससि

Mahabharata

Adi Parva, Adhyaya 70, Verse 29

ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः

स पालयामास महीमीजे च विविधैः सवैः

Mahabharata

Adi Parva, Adhyaya 70, Verse 30

अतिशक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा

अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः