Adi Parva, Adhyaya 69, Verse 1
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम्
ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः
क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम्
आवयोरन्तरं पश्य मेरुसर्षपयोरिव
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च
भवनान्यनुसंयामि प्रभावं पश्य मे नृप
सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ
निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि
विरूपो यावदादर्शे नात्मनः पश्यते मुखम्
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम्
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते
तदेतरं विजानाति आत्मानं नेतरं जनम्
अतीव रूपसंपन्नो न किंचिदवमन्यते
अतीव जल्पन्दुर्वाचो भवतीह विहेठकः
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः
अन्यान्परिवदन्साधुर्यथा हि परितप्यते
तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः
अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम्
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः
यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान्
अतो हास्यतरं लोके किंचिदन्यन्न विद्यते
यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम्
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव
अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः
स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते
तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन्
उत्तमं सर्वधर्माणां तस्मात्पुत्रं न संत्यजेत्
स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान्
कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत्
धर्मकीर्त्यावहा नॄणां मनसः प्रीतिवर्धनाः
त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन्
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि
आत्मानं सत्यधर्मौ च पालयानो महीपते
नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम्
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम्
सत्यं च वदतो राजन्समं वा स्यान्न वा समम्
नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम्
न हि तीव्रतरं किंचिदनृतादिह विद्यते
राजन्सत्यं परं ब्रह्म सत्यं च समयः परः
मा त्याक्षीः समयं राजन्सत्यं संगतमस्तु ते
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम्
आत्मनो हन्त गच्छामि त्वादृशे नास्ति संगतम्
ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम्
चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला
अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम्
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला