Mahabharata

Adi Parva, Adhyaya 67

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 67, Verse 1

सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे

भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते

Mahabharata

Adi Parva, Adhyaya 67, Verse 2

सुवर्णमाला वासांसि कुण्डले परिहाटके

नानापत्तनजे शुभ्रे मणिरत्ने च शोभने

Mahabharata

Adi Parva, Adhyaya 67, Verse 3

आहरामि तवाद्याहं निष्कादीन्यजिनानि च

सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने

Mahabharata

Adi Parva, Adhyaya 67, Verse 4

गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि

विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते

Mahabharata

Adi Parva, Adhyaya 67, Verse 5

फलाहारो गतो राजन्पिता मे इत आश्रमात्

तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति

Mahabharata

Adi Parva, Adhyaya 67, Verse 6

इच्छामि त्वां वरारोहे भजमानामनिन्दिते

त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम

Mahabharata

Adi Parva, Adhyaya 67, Verse 7

आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः

आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः

Mahabharata

Adi Parva, Adhyaya 67, Verse 8

अष्टावेव समासेन विवाहा धर्मतः स्मृताः

ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः

Mahabharata

Adi Parva, Adhyaya 67, Verse 9

गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः

तेषां धर्मान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत्

Mahabharata

Adi Parva, Adhyaya 67, Verse 10

प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय

षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते

Mahabharata

Adi Parva, Adhyaya 67, Verse 11

राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः

पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह

Mahabharata

Adi Parva, Adhyaya 67, Verse 12

पैशाचश्चासुरश्चैव न कर्तव्यौ कथंचन

अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता

Mahabharata

Adi Parva, Adhyaya 67, Verse 13

गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः

पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः

Mahabharata

Adi Parva, Adhyaya 67, Verse 14

सा त्वं मम सकामस्य सकामा वरवर्णिनि

गान्धर्वेण विवाहेन भार्या भवितुमर्हसि

Mahabharata

Adi Parva, Adhyaya 67, Verse 15

यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम

प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो

Mahabharata

Adi Parva, Adhyaya 67, Verse 16

सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः

मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम्

Mahabharata

Adi Parva, Adhyaya 67, Verse 17

युवराजो महाराज सत्यमेतद्ब्रवीहि मे

यद्येतदेवं दुःषन्त अस्तु मे संगमस्त्वया

Mahabharata

Adi Parva, Adhyaya 67, Verse 18

एवमस्त्विति तां राजा प्रत्युवाचाविचारयन्

अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते

यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते

Mahabharata

Adi Parva, Adhyaya 67, Verse 19

एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम्

जग्राह विधिवत्पाणावुवास च तया सह

Mahabharata

Adi Parva, Adhyaya 67, Verse 20

विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः

प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम्

तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते

Mahabharata

Adi Parva, Adhyaya 67, Verse 21

इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय

मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः

Mahabharata

Adi Parva, Adhyaya 67, Verse 22

भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति

एवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम्

Mahabharata

Adi Parva, Adhyaya 67, Verse 23

मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत्

शकुन्तला च पितरं ह्रिया नोपजगाम तम्

Mahabharata

Adi Parva, Adhyaya 67, Verse 24

विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः

उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा

Mahabharata

Adi Parva, Adhyaya 67, Verse 25

त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः

पुंसा सह समायोगो न स धर्मोपघातकः

Mahabharata

Adi Parva, Adhyaya 67, Verse 26

क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते

सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः

Mahabharata

Adi Parva, Adhyaya 67, Verse 27

धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः

अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले

Mahabharata

Adi Parva, Adhyaya 67, Verse 28

महात्मा जनिता लोके पुत्रस्तव महाबलः

य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम्

Mahabharata

Adi Parva, Adhyaya 67, Verse 29

परं चाभिप्रयातस्य चक्रं तस्य महात्मनः

भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः

Mahabharata

Adi Parva, Adhyaya 67, Verse 30

ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत्

विनिधाय ततो भारं संनिधाय फलानि च