Mahabharata

Adi Parva, Adhyaya 66

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 66, Verse 1

एवमुक्तस्तया शक्रः संदिदेश सदागतिम्

प्रातिष्ठत तदा काले मेनका वायुना सह

Mahabharata

Adi Parva, Adhyaya 66, Verse 2

अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम्

विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे

Mahabharata

Adi Parva, Adhyaya 66, Verse 3

अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ

अपोवाह च वासोऽस्या मारुतः शशिसंनिभम्

Mahabharata

Adi Parva, Adhyaya 66, Verse 4

सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती

उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी

Mahabharata

Adi Parva, Adhyaya 66, Verse 5

गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः

अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा

Mahabharata

Adi Parva, Adhyaya 66, Verse 6

तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा

चकार भावं संसर्गे तया कामवशं गतः

Mahabharata

Adi Parva, Adhyaya 66, Verse 7

न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता

तौ तत्र सुचिरं कालं वने व्यहरतामुभौ

रममाणौ यथाकामं यथैकदिवसं तथा

Mahabharata

Adi Parva, Adhyaya 66, Verse 8

जनयामास स मुनिर्मेनकायां शकुन्तलाम्

प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम्

Mahabharata

Adi Parva, Adhyaya 66, Verse 9

जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु

कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम्

Mahabharata

Adi Parva, Adhyaya 66, Verse 10

तं वने विजने गर्भं सिंहव्याघ्रसमाकुले

दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन्

Mahabharata

Adi Parva, Adhyaya 66, Verse 11

नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः

पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम्

Mahabharata

Adi Parva, Adhyaya 66, Verse 12

उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम्

निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम्

आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम्

Mahabharata

Adi Parva, Adhyaya 66, Verse 13

शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते

क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये

Mahabharata

Adi Parva, Adhyaya 66, Verse 14

निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता

शकुन्तलेति नामास्याः कृतं चापि ततो मया

Mahabharata

Adi Parva, Adhyaya 66, Verse 15

एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम्

शकुन्तला च पितरं मन्यते मामनिन्दिता

Mahabharata

Adi Parva, Adhyaya 66, Verse 16

एतदाचष्ट पृष्टः सन्मम जन्म महर्षये

सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप

Mahabharata

Adi Parva, Adhyaya 66, Verse 17

कण्वं हि पितरं मन्ये पितरं स्वमजानती

इति ते कथितं राजन्यथावृत्तं श्रुतं मया