Mahabharata

Adi Parva, Adhyaya 65

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 65, Verse 1

ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान्

नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम्

Mahabharata

Adi Parva, Adhyaya 65, Verse 2

सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम्

उवाच क इहेत्युच्चैर्वनं संनादयन्निव

Mahabharata

Adi Parva, Adhyaya 65, Verse 3

श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी

निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी

Mahabharata

Adi Parva, Adhyaya 65, Verse 4

सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा

स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च

Mahabharata

Adi Parva, Adhyaya 65, Verse 5

आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि

पप्रच्छानामयं राजन्कुशलं च नराधिपम्

Mahabharata

Adi Parva, Adhyaya 65, Verse 6

यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा

उवाच स्मयमानेव किं कार्यं क्रियतामिति

Mahabharata

Adi Parva, Adhyaya 65, Verse 7

तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम्

दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः

Mahabharata

Adi Parva, Adhyaya 65, Verse 8

आगतोऽहं महाभागमृषिं कण्वमुपासितुम्

क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने

Mahabharata

Adi Parva, Adhyaya 65, Verse 9

गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात्

मुहूर्तं संप्रतीक्षस्व द्रक्ष्यस्येनमिहागतम्

Mahabharata

Adi Parva, Adhyaya 65, Verse 10

अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः

तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम्

Mahabharata

Adi Parva, Adhyaya 65, Verse 11

विभ्राजमानां वपुषा तपसा च दमेन च

रूपयौवनसंपन्नामित्युवाच महीपतिः

Mahabharata

Adi Parva, Adhyaya 65, Verse 12

कासि कस्यासि सुश्रोणि किमर्थं चागता वनम्

एवंरूपगुणोपेता कुतस्त्वमसि शोभने

Mahabharata

Adi Parva, Adhyaya 65, Verse 13

दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः

इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने

Mahabharata

Adi Parva, Adhyaya 65, Verse 14

एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे

उवाच हसती वाक्यमिदं सुमधुराक्षरम्

Mahabharata

Adi Parva, Adhyaya 65, Verse 15

कण्वष्याहं भगवतो दुःषन्त दुहिता मता

तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः

Mahabharata

Adi Parva, Adhyaya 65, Verse 16

ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः

चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः

Mahabharata

Adi Parva, Adhyaya 65, Verse 17

कथं त्वं तस्य दुहिता संभूता वरवर्णिनी

संशयो मे महानत्र तं मे छेत्तुमिहार्हसि

Mahabharata

Adi Parva, Adhyaya 65, Verse 18

यथायमागमो मह्यं यथा चेदमभूत्पुरा

शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः

Mahabharata

Adi Parva, Adhyaya 65, Verse 19

ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत्

तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव

Mahabharata

Adi Parva, Adhyaya 65, Verse 20

तप्यमानः किल पुरा विश्वामित्रो महत्तपः

सुभृशं तापयामास शक्रं सुरगणेश्वरम्

Mahabharata

Adi Parva, Adhyaya 65, Verse 21

तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति

भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 65, Verse 22

गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे

श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु

Mahabharata

Adi Parva, Adhyaya 65, Verse 23

असावादित्यसंकाशो विश्वामित्रो महातपाः

तप्यमानस्तपो घोरं मम कम्पयते मनः

Mahabharata

Adi Parva, Adhyaya 65, Verse 24

मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे

संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते

Mahabharata

Adi Parva, Adhyaya 65, Verse 25

स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय

चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम्

Mahabharata

Adi Parva, Adhyaya 65, Verse 26

रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः

लोभयित्वा वरारोहे तपसः संनिवर्तय

Mahabharata

Adi Parva, Adhyaya 65, Verse 27

महातेजाः स भगवान्सदैव च महातपाः

कोपनश्च तथा ह्येनं जानाति भगवानपि

Mahabharata

Adi Parva, Adhyaya 65, Verse 28

तेजसस्तपसश्चैव कोपस्य च महात्मनः

त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम्

Mahabharata

Adi Parva, Adhyaya 65, Verse 29

महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत्

क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात्

Mahabharata

Adi Parva, Adhyaya 65, Verse 30

शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः

यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः