Adi Parva, Adhyaya 63, Verse 1
स कदाचिन्महाबाहुः प्रभूतबलवाहनः
वनं जगाम गहनं हयनागशतैर्वृतः
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
स कदाचिन्महाबाहुः प्रभूतबलवाहनः
वनं जगाम गहनं हयनागशतैर्वृतः
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः
प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः
रथनेमिस्वनैश्चापि सनागवरबृंहितैः
हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः
आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे
प्रासादवरशृङ्गस्थाः परया नृपशोभया
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम्
शक्रोपमममित्रघ्नं परवारणवारणम्
पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम्
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि
तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः
निर्ययौ परया प्रीत्या वनं मृगजिघांसया
सुदूरमनुजग्मुस्तं पौरजानपदास्तदा
न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः
महीमापूरयामास घोषेण त्रिदिवं तथा
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम्
बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम्
विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम्
निर्जलं निर्मनुष्यं च बहुयोजनमायतम्
मृगसंघैर्वृतं घोरैरन्यैश्चापि वनेचरैः
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः
लोडयामास दुःषन्तः सूदयन्विविधान्मृगान्
बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून्
पातयामास दुःषन्तो निर्बिभेद च सायकैः
दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः
अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत
कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः
तोमरैरसिभिश्चापि गदामुसलकर्पणैः
चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान्
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः
लोड्यमानं महारण्यं तत्यजुश्च महामृगाः
तत्र विद्रुतसंघानि हतयूथपतीनि च
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः
शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः
केचिदग्निमथोत्पाद्य समिध्य च वनेचराः
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः
संकोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु
वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून्
तद्वनं बलमेघेन शरधारेण संवृतम्
व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम्