Mahabharata

Adi Parva, Adhyaya 62

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 62, Verse 1

त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम्

अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा

Mahabharata

Adi Parva, Adhyaya 62, Verse 2

इमं तु भूय इच्छामि कुरूणां वंशमादितः

कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ

Mahabharata

Adi Parva, Adhyaya 62, Verse 3

पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान्

पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम

Mahabharata

Adi Parva, Adhyaya 62, Verse 4

चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः

समुद्रावरणांश्चापि देशान्स समितिंजयः

Mahabharata

Adi Parva, Adhyaya 62, Verse 5

आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः

रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान्

Mahabharata

Adi Parva, Adhyaya 62, Verse 6

न वर्णसंकरकरो नाकृष्यकरकृज्जनः

न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति

Mahabharata

Adi Parva, Adhyaya 62, Verse 7

धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे

तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे

Mahabharata

Adi Parva, Adhyaya 62, Verse 8

नासीच्चोरभयं तात न क्षुधाभयमण्वपि

नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे

Mahabharata

Adi Parva, Adhyaya 62, Verse 9

स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः

तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः

Mahabharata

Adi Parva, Adhyaya 62, Verse 10

कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च

सर्वरत्नसमृद्धा च मही वसुमती तदा

Mahabharata

Adi Parva, Adhyaya 62, Verse 11

स चाद्भुतमहावीर्यो वज्रसंहननो युवा

उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम्

Mahabharata

Adi Parva, Adhyaya 62, Verse 12

धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च

नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः

Mahabharata

Adi Parva, Adhyaya 62, Verse 13

बले विष्णुसमश्चासीत्तेजसा भास्करोपमः

अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः

Mahabharata

Adi Parva, Adhyaya 62, Verse 14

संमतः स महीपालः प्रसन्नपुरराष्ट्रवान्

भूयो धर्मपरैर्भावैर्विदितं जनमावसत्