Mahabharata

Adi Parva, Adhyaya 61

Containing 102 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 61, Verse 1

देवानां दानवानां च यक्षाणामथ रक्षसाम्

अन्येषां चैव भूतानां सर्वेषां भगवन्नहम्

Mahabharata

Adi Parva, Adhyaya 61, Verse 2

श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्

जन्म कर्म च भूतानामेतेषामनुपूर्वशः

Mahabharata

Adi Parva, Adhyaya 61, Verse 3

मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः

प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः

Mahabharata

Adi Parva, Adhyaya 61, Verse 4

विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः

जरासंध इति ख्यातः स आसीन्मनुजर्षभः

Mahabharata

Adi Parva, Adhyaya 61, Verse 5

दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः

स जज्ञे मानुषे लोके शिशुपालो नरर्षभः

Mahabharata

Adi Parva, Adhyaya 61, Verse 6

संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः

स शल्य इति विख्यातो जज्ञे बाह्लीकपुंगवः

Mahabharata

Adi Parva, Adhyaya 61, Verse 7

अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः

धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः

Mahabharata

Adi Parva, Adhyaya 61, Verse 8

यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः

द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः

Mahabharata

Adi Parva, Adhyaya 61, Verse 9

बाष्कलो नाम यस्तेषामासीदसुरसत्तमः

भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः

Mahabharata

Adi Parva, Adhyaya 61, Verse 10

अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्

तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः

Mahabharata

Adi Parva, Adhyaya 61, Verse 11

पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः

केकयेषु महात्मानः पार्थिवर्षभसत्तमाः

Mahabharata

Adi Parva, Adhyaya 61, Verse 12

केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान्

अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः

Mahabharata

Adi Parva, Adhyaya 61, Verse 13

स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः

उग्रसेन इति ख्यात उग्रकर्मा नराधिपः

Mahabharata

Adi Parva, Adhyaya 61, Verse 14

यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः

अशोको नाम राजासीन्महावीर्यपराक्रमः

Mahabharata

Adi Parva, Adhyaya 61, Verse 15

तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः

दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः

Mahabharata

Adi Parva, Adhyaya 61, Verse 16

वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः

दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः

Mahabharata

Adi Parva, Adhyaya 61, Verse 17

अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः

स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः

Mahabharata

Adi Parva, Adhyaya 61, Verse 18

अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः

रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः

Mahabharata

Adi Parva, Adhyaya 61, Verse 19

सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः

बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः

Mahabharata

Adi Parva, Adhyaya 61, Verse 20

तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः

सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः

Mahabharata

Adi Parva, Adhyaya 61, Verse 21

इसृपा नाम यस्तेषामसुराणां बलाधिकः

पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः

Mahabharata

Adi Parva, Adhyaya 61, Verse 22

एकचक्र इति ख्यात आसीद्यस्तु महासुरः

प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ

Mahabharata

Adi Parva, Adhyaya 61, Verse 23

विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः

चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः

Mahabharata

Adi Parva, Adhyaya 61, Verse 24

हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः

सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः

Mahabharata

Adi Parva, Adhyaya 61, Verse 25

अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः

बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ

Mahabharata

Adi Parva, Adhyaya 61, Verse 26

निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः

मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः

Mahabharata

Adi Parva, Adhyaya 61, Verse 27

निकुम्भस्त्वजितः संख्ये महामतिरजायत

भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः

Mahabharata

Adi Parva, Adhyaya 61, Verse 28

शरभो नाम यस्तेषां दैतेयानां महासुरः

पौरवो नाम राजर्षिः स बभूव नरेष्विह

Mahabharata

Adi Parva, Adhyaya 61, Verse 29

द्वितीयः शलभस्तेषामसुराणां बभूव यः

प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः

Mahabharata

Adi Parva, Adhyaya 61, Verse 30

चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः

ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः