Adi Parva, Adhyaya 60, Verse 1
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः
एकादश सुताः स्थाणोः ख्याताः परममानसाः
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः
एकादश सुताः स्थाणोः ख्याताः परममानसाः
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः
अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः
स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा
पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा
क्रतोः क्रतुसमाः पुत्राः पतंगसहचारिणः
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः
ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः
ददौ स दश धर्माय सप्तविंशतिमिन्दवे
दिव्येन विधिना राजन्कश्यपाय त्रयोदश
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश
द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः
कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम्
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा
चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः
कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम्
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी
योगसिद्धा जगत्सर्वमसक्तं विचरत्युत
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः
यो दिव्यानि विमानानि देवतानां चकार ह
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम्
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः