Adi Parva, Adhyaya 59, Verse 1
अथ नारायणेनेन्द्रश्चकार सह संविदम्
अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ नारायणेनेन्द्रश्चकार सह संविदम्
अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह
तेऽमरारिविनाशाय सर्वलोकहिताय च
अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा
पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा
न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम
देवदानवसंघानां गन्धर्वाप्सरसां तथा
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम्
श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः
प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम्
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः
क्रोधा प्रावा अरिष्टा च विनता कपिला तथा
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत
एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम्
अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत
धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च
भगो विवस्वान्पूषा च सविता दशमस्तथा
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते
जघन्यजः स सर्वेषामादित्यानां गुणाधिकः
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः
नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः
प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम्
अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत
विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान्
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः
असिलोमा च केशी च दुर्जयश्चैव दानवः
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्
तथा गगनमूर्धा च वेगवान्केतुमांश्च यः
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः
इसृपा एकचक्रश्च विरूपाक्षो हराहरौ
निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा
इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ
इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः
दनुपुत्रा महाराज दश दानवपुङ्गवाः
एकाक्षो मृतपा वीरः प्रलम्बनरकावपि
वातापिः शत्रुतपनः शठश्चैव महासुरः
गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः
असंख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्
सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम्