Mahabharata

Adi Parva, Adhyaya 58

Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 58, Verse 1

य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः

सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः

Mahabharata

Adi Parva, Adhyaya 58, Verse 2

यदर्थमिह संभूता देवकल्पा महारथाः

भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि

Mahabharata

Adi Parva, Adhyaya 58, Verse 3

रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम्

तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे

Mahabharata

Adi Parva, Adhyaya 58, Verse 4

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा

जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे

Mahabharata

Adi Parva, Adhyaya 58, Verse 5

तदा निःक्षत्रिये लोके भार्गवेण कृते सति

ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः

Mahabharata

Adi Parva, Adhyaya 58, Verse 6

ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः

ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा

Mahabharata

Adi Parva, Adhyaya 58, Verse 7

तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः

ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान्

कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये

Mahabharata

Adi Parva, Adhyaya 58, Verse 8

एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः

जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम्

चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः

Mahabharata

Adi Parva, Adhyaya 58, Verse 9

अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा

तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि

ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ

Mahabharata

Adi Parva, Adhyaya 58, Verse 10

ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः

ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः

आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः

Mahabharata

Adi Parva, Adhyaya 58, Verse 11

अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम्

अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम्

Mahabharata

Adi Parva, Adhyaya 58, Verse 12

प्रशासति पुनः क्षत्रे धर्मेणेमां वसुंधराम्

ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम्

Mahabharata

Adi Parva, Adhyaya 58, Verse 13

कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः

दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन्

Mahabharata

Adi Parva, Adhyaya 58, Verse 14

तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः

स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः

Mahabharata

Adi Parva, Adhyaya 58, Verse 15

न बाल एव म्रियते तदा कश्चिन्नराधिप

न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः

Mahabharata

Adi Parva, Adhyaya 58, Verse 16

एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ

इयं सागरपर्यन्ता समापूर्यत मेदिनी

Mahabharata

Adi Parva, Adhyaya 58, Verse 17

ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः

साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा

Mahabharata

Adi Parva, Adhyaya 58, Verse 18

न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप

न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत

Mahabharata

Adi Parva, Adhyaya 58, Verse 19

कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह

न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन्

Mahabharata

Adi Parva, Adhyaya 58, Verse 20

फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः

न कूटमानैर्वणिजः पण्यं विक्रीणते तदा

Mahabharata

Adi Parva, Adhyaya 58, Verse 21

कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः

धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः

Mahabharata

Adi Parva, Adhyaya 58, Verse 22

स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप

एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित्

Mahabharata

Adi Parva, Adhyaya 58, Verse 23

काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ

फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च

Mahabharata

Adi Parva, Adhyaya 58, Verse 24

एवं कृतयुगे सम्यग्वर्तमाने तदा नृप

आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम्

Mahabharata

Adi Parva, Adhyaya 58, Verse 25

ततः समुदिते लोके मानुषे भरतर्षभ

असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुंगव

Mahabharata

Adi Parva, Adhyaya 58, Verse 26

आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि

ऐश्वर्याद्भ्रंशिताश्चापि संबभूवुः क्षिताविह

Mahabharata

Adi Parva, Adhyaya 58, Verse 27

इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः

जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो

Mahabharata

Adi Parva, Adhyaya 58, Verse 28

गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च

क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च

Mahabharata

Adi Parva, Adhyaya 58, Verse 29

जातैरिह महीपाल जायमानैश्च तैर्मही

न शशाकात्मनात्मानमियं धारयितुं धरा

Mahabharata

Adi Parva, Adhyaya 58, Verse 30

अथ जाता महीपालाः केचिद्बलसमन्विताः

दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः