Mahabharata

Adi Parva, Adhyaya 57

Containing 106 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 57, Verse 1

राजोपरिचरो नाम धर्मनित्यो महीपतिः

बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः

Mahabharata

Adi Parva, Adhyaya 57, Verse 2

स चेदिविषयं रम्यं वसुः पौरवनन्दनः

इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः

Mahabharata

Adi Parva, Adhyaya 57, Verse 3

तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम्

देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम्

Mahabharata

Adi Parva, Adhyaya 57, Verse 4

इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै

तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत्

Mahabharata

Adi Parva, Adhyaya 57, Verse 5

न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते

तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत्

Mahabharata

Adi Parva, Adhyaya 57, Verse 6

लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः

धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान्

Mahabharata

Adi Parva, Adhyaya 57, Verse 7

दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः

ऊधः पृथिव्या यो देशस्तमावस नराधिप

Mahabharata

Adi Parva, Adhyaya 57, Verse 8

पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान्

स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः

Mahabharata

Adi Parva, Adhyaya 57, Verse 9

अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः

वसुपूर्णा च वसुधा वस चेदिषु चेदिप

Mahabharata

Adi Parva, Adhyaya 57, Verse 10

धर्मशीला जनपदाः सुसंतोषाश्च साधवः

न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा

Mahabharata

Adi Parva, Adhyaya 57, Verse 11

न च पित्रा विभज्यन्ते नरा गुरुहिते रताः

युञ्जते धुरि नो गाश्च कृशाः संधुक्षयन्ति च

Mahabharata

Adi Parva, Adhyaya 57, Verse 12

सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद

न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत्

Mahabharata

Adi Parva, Adhyaya 57, Verse 13

देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत्

आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते

Mahabharata

Adi Parva, Adhyaya 57, Verse 14

त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः

चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव

Mahabharata

Adi Parva, Adhyaya 57, Verse 15

ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम्

धारयिष्यति संग्रामे या त्वां शस्त्रैरविक्षतम्

Mahabharata

Adi Parva, Adhyaya 57, Verse 16

लक्षणं चैतदेवेह भविता ते नराधिप

इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्

Mahabharata

Adi Parva, Adhyaya 57, Verse 17

यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः

इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम्

Mahabharata

Adi Parva, Adhyaya 57, Verse 18

तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा

प्रवेशं कारयामास गते संवत्सरे तदा

Mahabharata

Adi Parva, Adhyaya 57, Verse 19

ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः

प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः

Mahabharata

Adi Parva, Adhyaya 57, Verse 20

अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः

अलंकृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः

माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च

Mahabharata

Adi Parva, Adhyaya 57, Verse 21

भगवान्पूज्यते चात्र हास्यरूपेण शंकरः

स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः

Mahabharata

Adi Parva, Adhyaya 57, Verse 22

एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम्

वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः

Mahabharata

Adi Parva, Adhyaya 57, Verse 23

ये पूजयिष्यन्ति नरा राजानश्च महं मम

कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः

Mahabharata

Adi Parva, Adhyaya 57, Verse 24

तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति

तथा स्फीतो जनपदो मुदितश्च भविष्यति

Mahabharata

Adi Parva, Adhyaya 57, Verse 25

एवं महात्मना तेन महेन्द्रेण नराधिप

वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः

Mahabharata

Adi Parva, Adhyaya 57, Verse 26

उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः

भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै

वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते

Mahabharata

Adi Parva, Adhyaya 57, Verse 27

संपूजितो मघवता वसुश्चेदिपतिस्तदा

पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्

इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः

Mahabharata

Adi Parva, Adhyaya 57, Verse 28

पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः

नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत्

Mahabharata

Adi Parva, Adhyaya 57, Verse 29

महारथो मगधराड्विश्रुतो यो बृहद्रथः

प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्

मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः

Mahabharata

Adi Parva, Adhyaya 57, Verse 30

एते तस्य सुता राजन्राजर्षेर्भूरितेजसः

न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च

वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः