Mahabharata

Adi Parva, Adhyaya 55

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 55, Verse 1

गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः

संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्

Mahabharata

Adi Parva, Adhyaya 55, Verse 2

महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः

प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः

Mahabharata

Adi Parva, Adhyaya 55, Verse 3

श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्

गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम्

Mahabharata

Adi Parva, Adhyaya 55, Verse 4

शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्

राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च

Mahabharata

Adi Parva, Adhyaya 55, Verse 5

यथा च युद्धमभवत्पृथिवीक्षयकारकम्

तत्तेऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ

Mahabharata

Adi Parva, Adhyaya 55, Verse 6

मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्

नचिरादिव विद्वांसो वेदे धनुषि चाभवन्

Mahabharata

Adi Parva, Adhyaya 55, Verse 7

तांस्तथा रूपवीर्यौजःसंपन्नान्पौरसंमतान्

नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः

Mahabharata

Adi Parva, Adhyaya 55, Verse 8

ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः

तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन्

Mahabharata

Adi Parva, Adhyaya 55, Verse 9

ददावथ विषं पापो भीमाय धृतराष्ट्रजः

जरयामास तद्वीरः सहान्नेन वृकोदरः

Mahabharata

Adi Parva, Adhyaya 55, Verse 10

प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्

तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्

Mahabharata

Adi Parva, Adhyaya 55, Verse 11

यदा प्रबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्

उदतिष्ठन्महाराज भीमसेनो गतव्यथः

Mahabharata

Adi Parva, Adhyaya 55, Verse 12

आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्

सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा

Mahabharata

Adi Parva, Adhyaya 55, Verse 13

तेषां तु विप्रकारेषु तेषु तेषु महामतिः

मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत्

Mahabharata

Adi Parva, Adhyaya 55, Verse 14

स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः

पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः

Mahabharata

Adi Parva, Adhyaya 55, Verse 15

यदा तु विविधोपायैः संवृतैर्विवृतैरपि

नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्

Mahabharata

Adi Parva, Adhyaya 55, Verse 16

ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः

धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्

Mahabharata

Adi Parva, Adhyaya 55, Verse 17

तत्र तान्वासयामास पाण्डवानमितौजसः

अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा

Mahabharata

Adi Parva, Adhyaya 55, Verse 18

विदुरस्यैव वचनात्खनित्री विहिता ततः

मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात्

Mahabharata

Adi Parva, Adhyaya 55, Verse 19

ततो महावने घोरे हिडिम्बं नाम राक्षसम्

भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः

Mahabharata

Adi Parva, Adhyaya 55, Verse 20

अथ संधाय ते वीरा एकचक्रां व्रजंस्तदा

ब्रह्मरूपधरा भूत्वा मात्रा सह परंतपाः

Mahabharata

Adi Parva, Adhyaya 55, Verse 21

तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम्

ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः

Mahabharata

Adi Parva, Adhyaya 55, Verse 22

ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः

विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः

Mahabharata

Adi Parva, Adhyaya 55, Verse 23

त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च

भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति

अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः

Mahabharata

Adi Parva, Adhyaya 55, Verse 24

तस्माज्जनपदोपेतं सुविभक्तमहापथम्

वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः

Mahabharata

Adi Parva, Adhyaya 55, Verse 25

तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः

नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः

Mahabharata

Adi Parva, Adhyaya 55, Verse 26

तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून्

वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः

Mahabharata

Adi Parva, Adhyaya 55, Verse 27

एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः

अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा

Mahabharata

Adi Parva, Adhyaya 55, Verse 28

अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः

उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा

Mahabharata

Adi Parva, Adhyaya 55, Verse 29

दक्षिणां सहदेवस्तु विजिग्ये परवीरहा

एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुंधराम्

Mahabharata

Adi Parva, Adhyaya 55, Verse 30

पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता

षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः