Mahabharata

Adi Parva, Adhyaya 54

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 54, Verse 1

श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्

अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा

Mahabharata

Adi Parva, Adhyaya 54, Verse 2

जनयामास यं काली शक्तेः पुत्रात्पराशरात्

कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम्

Mahabharata

Adi Parva, Adhyaya 54, Verse 3

जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत्

वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः

Mahabharata

Adi Parva, Adhyaya 54, Verse 4

यं नातितपसा कश्चिन्न वेदाध्ययनेन च

न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना

Mahabharata

Adi Parva, Adhyaya 54, Verse 5

विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः

परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः

Mahabharata

Adi Parva, Adhyaya 54, Verse 6

यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत्

शंतनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः

Mahabharata

Adi Parva, Adhyaya 54, Verse 7

जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा

विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः

Mahabharata

Adi Parva, Adhyaya 54, Verse 8

तत्र राजानमासीनं ददर्श जनमेजयम्

वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम्

Mahabharata

Adi Parva, Adhyaya 54, Verse 9

तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः

ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे

Mahabharata

Adi Parva, Adhyaya 54, Verse 10

जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्

सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः

Mahabharata

Adi Parva, Adhyaya 54, Verse 11

काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः

आसनं कल्पयामास यथा शक्रो बृहस्पतेः

Mahabharata

Adi Parva, Adhyaya 54, Verse 12

तत्रोपविष्टं वरदं देवर्षिगणपूजितम्

पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा

Mahabharata

Adi Parva, Adhyaya 54, Verse 13

पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः

पितामहाय कृष्णाय तदर्हाय न्यवेदयत्

Mahabharata

Adi Parva, Adhyaya 54, Verse 14

प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात्

गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा

Mahabharata

Adi Parva, Adhyaya 54, Verse 15

तथा संपूजयित्वा तं यत्नेन प्रपितामहम्

उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम्

Mahabharata

Adi Parva, Adhyaya 54, Verse 16

भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च

सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत्

Mahabharata

Adi Parva, Adhyaya 54, Verse 17

ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः

इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः

Mahabharata

Adi Parva, Adhyaya 54, Verse 18

कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्

तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज

Mahabharata

Adi Parva, Adhyaya 54, Verse 19

कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्

तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत्

Mahabharata

Adi Parva, Adhyaya 54, Verse 20

पितामहानां सर्वेषां दैवेनाविष्टचेतसाम्

कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि

Mahabharata

Adi Parva, Adhyaya 54, Verse 21

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा

शशास शिष्यमासीनं वैशंपायनमन्तिके

Mahabharata

Adi Parva, Adhyaya 54, Verse 22

कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा

तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि

Mahabharata

Adi Parva, Adhyaya 54, Verse 23

गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा

आचचक्षे ततः सर्वमितिहासं पुरातनम्

Mahabharata

Adi Parva, Adhyaya 54, Verse 24

तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः

भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा