Mahabharata

Adi Parva, Adhyaya 53

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 53, Verse 1

इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः

तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह

Mahabharata

Adi Parva, Adhyaya 53, Verse 2

इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत

ततश्चिन्तापरो राजा बभूव जनमेजयः

Mahabharata

Adi Parva, Adhyaya 53, Verse 3

हूयमाने भृशं दीप्ते विधिवत्पावके तदा

न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः

Mahabharata

Adi Parva, Adhyaya 53, Verse 4

किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्

न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः

Mahabharata

Adi Parva, Adhyaya 53, Verse 5

तमिन्द्रहस्ताद्विस्रस्तं विसंज्ञं पन्नगोत्तमम्

आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत्

Mahabharata

Adi Parva, Adhyaya 53, Verse 6

वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता

यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः

Mahabharata

Adi Parva, Adhyaya 53, Verse 7

ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्

काममेतद्भवत्वेवं यथास्तीकस्य भाषितम्

Mahabharata

Adi Parva, Adhyaya 53, Verse 8

समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः

प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत्

Mahabharata

Adi Parva, Adhyaya 53, Verse 9

ततो हलहलाशब्दः प्रीतिजः समवर्तत

आस्तीकस्य वरे दत्ते तथैवोपरराम च

Mahabharata

Adi Parva, Adhyaya 53, Verse 10

स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह

प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः

Mahabharata

Adi Parva, Adhyaya 53, Verse 11

ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः

तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः

Mahabharata

Adi Parva, Adhyaya 53, Verse 12

लोहिताक्षाय सूताय तथा स्थपतये विभुः

येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम्

Mahabharata

Adi Parva, Adhyaya 53, Verse 13

निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु

ततश्चकारावभृथं विधिदृष्टेन कर्मणा

Mahabharata

Adi Parva, Adhyaya 53, Verse 14

आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम्

राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्

Mahabharata

Adi Parva, Adhyaya 53, Verse 15

पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत्

भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ

Mahabharata

Adi Parva, Adhyaya 53, Verse 16

तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः

कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम्

Mahabharata

Adi Parva, Adhyaya 53, Verse 17

स गत्वा परमप्रीतो मातरं मातुलं च तम्

अभिगम्योपसंगृह्य यथावृत्तं न्यवेदयत्

Mahabharata

Adi Parva, Adhyaya 53, Verse 18

एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः

तेऽऽस्तीके वै प्रीतिमन्तो बभूवु;रूचुश्चैनं वरमिष्टं वृणीष्व

Mahabharata

Adi Parva, Adhyaya 53, Verse 19

भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन्

प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स

Mahabharata

Adi Parva, Adhyaya 53, Verse 20

सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि

धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किंचिद्भयं स्यात्

Mahabharata

Adi Parva, Adhyaya 53, Verse 21

तैश्चाप्युक्तो भागिनेयः प्रसन्नै;रेतत्सत्यं काममेवं चरन्तः

प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय

Mahabharata

Adi Parva, Adhyaya 53, Verse 22

जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः

आस्तीकः सत्यसंधो मां पन्नगेभ्योऽभिरक्षतु

Mahabharata

Adi Parva, Adhyaya 53, Verse 23

असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्

दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत्

Mahabharata

Adi Parva, Adhyaya 53, Verse 24

मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः

जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान्

Mahabharata

Adi Parva, Adhyaya 53, Verse 25

इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव

यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित्

Mahabharata

Adi Parva, Adhyaya 53, Verse 26

श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम्

आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः

Mahabharata

Adi Parva, Adhyaya 53, Verse 27

भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत्

आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते

Mahabharata

Adi Parva, Adhyaya 53, Verse 28

प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन

यां कथां व्याससंपन्नां तां च भूयः प्रचक्ष्व मे

Mahabharata

Adi Parva, Adhyaya 53, Verse 29

तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम्

कर्मान्तरेषु विधिवत्सदस्यानां महाकवे

Mahabharata

Adi Parva, Adhyaya 53, Verse 30

या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम्

त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः