Mahabharata

Adi Parva, Adhyaya 52

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 52, Verse 1

ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने

तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज

Mahabharata

Adi Parva, Adhyaya 52, Verse 2

सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च

न शक्यं परिसंख्यातुं बहुत्वाद्वेदवित्तम

Mahabharata

Adi Parva, Adhyaya 52, Verse 3

यथास्मृति तु नामानि पन्नगानां निबोध मे

उच्यमानानि मुख्यानां हुतानां जातवेदसि

Mahabharata

Adi Parva, Adhyaya 52, Verse 4

वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे

नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्

Mahabharata

Adi Parva, Adhyaya 52, Verse 5

कोटिको मानसः पूर्णः सहः पैलो हलीसकः

पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः

Mahabharata

Adi Parva, Adhyaya 52, Verse 6

हिरण्यवाहः शरणः कक्षकः कालदन्तकः

एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम्

Mahabharata

Adi Parva, Adhyaya 52, Verse 7

तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्

पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः

Mahabharata

Adi Parva, Adhyaya 52, Verse 8

उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः

शिलीशलकरो मूकः सुकुमारः प्रवेपनः

Mahabharata

Adi Parva, Adhyaya 52, Verse 9

मुद्गरः शशरोमा च सुमना वेगवाहनः

एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्

Mahabharata

Adi Parva, Adhyaya 52, Verse 10

पारावतः पारियात्रः पाण्डरो हरिणः कृशः

विहंगः शरभो मोदः प्रमोदः संहताङ्गदः

Mahabharata

Adi Parva, Adhyaya 52, Verse 11

ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्

कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम

Mahabharata

Adi Parva, Adhyaya 52, Verse 12

ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः

बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ

Mahabharata

Adi Parva, Adhyaya 52, Verse 13

धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्

कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्

Mahabharata

Adi Parva, Adhyaya 52, Verse 14

शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ

पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः

Mahabharata

Adi Parva, Adhyaya 52, Verse 15

आमाहठः कोमठकः श्वसनो मानवो वटः

भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः

Mahabharata

Adi Parva, Adhyaya 52, Verse 16

ऋषभो वेगवान्नाम पिण्डारकमहाहनू

रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ

Mahabharata

Adi Parva, Adhyaya 52, Verse 17

वराहको वारणकः सुमित्रश्चित्रवेदिकः

पराशरस्तरुणको मणिस्कन्धस्तथारुणिः

Mahabharata

Adi Parva, Adhyaya 52, Verse 18

इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः

प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः

Mahabharata

Adi Parva, Adhyaya 52, Verse 19

एतेषां पुत्रपौत्रास्तु प्रसवस्य च संततिः

न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः

Mahabharata

Adi Parva, Adhyaya 52, Verse 20

सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे

कालानलविषा घोरा हुताः शतसहस्रशः

Mahabharata

Adi Parva, Adhyaya 52, Verse 21

महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः

योजनायामविस्तारा द्वियोजनसमायताः

Mahabharata

Adi Parva, Adhyaya 52, Verse 22

कामरूपाः कामगमा दीप्तानलविषोल्बणाः

दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः