Mahabharata

Adi Parva, Adhyaya 50

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 50, Verse 1

सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

Mahabharata

Adi Parva, Adhyaya 50, Verse 2

शक्रस्य यज्ञः शतसंख्य उक्त;स्तथापरस्तुल्यसंख्यः शतं वै

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

Mahabharata

Adi Parva, Adhyaya 50, Verse 3

यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

Mahabharata

Adi Parva, Adhyaya 50, Verse 4

गयस्य यज्ञः शशबिन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

Mahabharata

Adi Parva, Adhyaya 50, Verse 5

नृगस्य यज्ञस्त्वजमीढस्य चासी;द्यथा यज्ञो दाशरथेश्च राज्ञः

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

Mahabharata

Adi Parva, Adhyaya 50, Verse 6

यज्ञः श्रुतो नो दिवि देवसूनो;र्युधिष्ठिरस्याजमीढस्य राज्ञः

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

Mahabharata

Adi Parva, Adhyaya 50, Verse 7

कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

Mahabharata

Adi Parva, Adhyaya 50, Verse 8

इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा

नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथंचित्

Mahabharata

Adi Parva, Adhyaya 50, Verse 9

ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे

एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः

Mahabharata

Adi Parva, Adhyaya 50, Verse 10

विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा

प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः

Mahabharata

Adi Parva, Adhyaya 50, Verse 11

नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम्

धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा

Mahabharata

Adi Parva, Adhyaya 50, Verse 12

शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम्

मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे

Mahabharata

Adi Parva, Adhyaya 50, Verse 13

खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः

आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम्

Mahabharata

Adi Parva, Adhyaya 50, Verse 14

वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते नियतश्च कोपः

प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नारायणवद्विभाति

Mahabharata

Adi Parva, Adhyaya 50, Verse 15

यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः

श्रियां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम्

Mahabharata

Adi Parva, Adhyaya 50, Verse 16

दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविदस्त्रविच्च

और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयोऽसि भगीरथो वा

Mahabharata

Adi Parva, Adhyaya 50, Verse 17

एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः

तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयोऽथ